________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
सटीकता किंकरक्षायान
योग्यस्य स्मरणाभावादनुमीयते । करणाभावश्च मानसप्रत्यक्ष इति नानवस्था । अनयैव दिशा प्रातगंजाभावविज्ञाने ऽपि ज्ञेयम् (")। कथमन्यथा प्रमाणान्तरवादिनः सायन्तनसमये ऽनुभूयमानस्य गजादेः प्रातःकालीनाभावविषयेो ऽनुभवो जायेत । न हि तदानीं तस्यानुपलब्धिरस्ति । प्रातःकालीनैवानुवर्तत इति चेत् न तत्रापि दृश्यत्वाभावेन योग्यानुपलब्धेरभावात् । स्मर्तव्यस्य स्मरणाभावस्तत्राभावज्ञाने का
६६४
Acharya Shri Kailassagarsuri Gyanmandir
पुनस्तस्य तस्याप्येवमनवस्था स्यादित्यत आह । खरणाभावश्चेति । अभावस्य प्रतियोगिग्राहककरणग्राह्यत्वाचास्य मानसत्वं स्मरणानुपलब्धिस्तु यथा वः सन्तयैव करणं तथा नः सत्तयैव मनः सहकारिणीति नानवस्थेति सर्व सुस्थम् । उक्तं न्यायमन्यत्राप्यतिदिशति । अनयैवेति । तदपि स्मरणाभावलिङ्गानुमेयमित्यर्थः । तदनङ्गीकारे बाधकमाह । कथमन्यथेति । ननु तस्यानुपलब्धिरेव प्रमाणमस्तीत्याशङ्का किं सायंतनगजानुपलब्धिः प्रातस्तन गजानुपलब्धिवी नाद्यः तदानीं तस्योपलभ्यमानत्वादित्याह । न हीति । द्वितीयमाशङ्कते । प्रातःकालीनेति । प्रातःकालीनगजसम्बन्धिनीत्यर्थः । तत्रापीति । तदानींतनगजस्येदानों कालविप्रकृष्टतथा दर्शनयोग्यत्वाभावेनायोग्यत्वानुपलब्धिः सती न कालान्तराभावमवगमयितुमीष्ट इत्यर्थः । तर्हि स्मृतियोग्यस्यास्मर्यमाणत्वात् स्मरणाभावलक्षणायाग्यानुपलब्धिरेवास्तीति शङ्कते । सर्तत्र्यस्येति । तर्हि प्रमित्यभावलक्षणाया एवा(१) विज्ञानमपि नेयम् - पा. B. ।
For Private and Personal Use Only