________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाण प्रकरणे ऽयापत्याद्यन्तर्भावनिरूपणम् ।
चादानर्थान्तरभावादित्यादि समर्थितम् । तथाहि । अनुपपद्यमानार्थदर्शनात् तदुपपादकभूतार्थान्तरकल्पनम थीपतिः । यथा जीवता देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य गृहभावदर्शनेन वा बहिरभावस्य कल्पनम् । तत्र तावद्वहिर्भावमन्तरेण गृहाभावस्य कानुपपत्तिरिति वाच्यम् । तमन्तरेणासैौ न भवतीति चेत् । न भवतीत्यस्य कोर्थः । किं न जायत इति किं वा नावतिष्ठत इति । न प्रथमः । बहिभावाकार्यत्वाद् गृहाभावस्य । न द्वितीयः । शब्दान्तरेणाविनाभावस्यैवाङ्गीकारात् । गम्येन हि विना दर्थसिद्धमितरान्तर्भावं स्वयं समर्थयितुमारभते । तथाहीति । तत्रादावर्थापत्तेरन्तर्भीवं वक्तं तत्स्वरूपं तावदाह । अनुपपद्यमानेति । उदाहरति । यथेति । उक्तवैपरीत्येनाप्यर्थापत्तिमुदाहरति । गृहभावेति । अथैनामनुमानेन्तर्भावयितुमनुपपत्तिशब्दार्थं तावत् पृच्छति । तत्रेति । तं विना तस्या भवनमेवानुपपत्तिरिति परः शङ्कते । तमिति । तहयमेवानुमानजीवातुव्याप्तिरिति वक्तुं प्रश्नपूर्वकमभवनं द्वेधा विकल्पयति । न भवतीत्यस्येति । बहिर्भीवमन्तरेण गृहाभावस्याभवनं नामानुत्पतिरनवस्थानं वेत्यर्थः । बहिभवाकार्यत्वादिति । देवदत्तस्य गृहाभावो नाम गृहसंसर्गाभावस्तस्य प्रागभावत्वे कार्यत्वात् प्रध्वंसत्वे प्रागेव देवदत्तनिष्ठक्रियाजन्य विभागजनितत्वादित्यर्थः । शब्दान्तरेणेति । अनुपपत्तिशब्देनेत्यर्थः । तं विनानवस्थानस्याविनाभावत्वमभिव्यक्तुमविनाभावस्वरूपमाह ।
/
For Private and Personal Use Only
ગ