________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रमाण प्रकरणे ऽनुमाननिरूपणम् । वर्तमानमिति । यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति सपक्षव्यापकः कृतकत्वस्य सर्वेष्वनित्येषु वृत्तेः । तयोरेव साध्यदृष्टान्तयोः सामान्यवस्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादिति सपक्षैकदेशवृत्तिः । अनित्येषु द्वाणुकादिष्ववृत्तेः घटादिषु च वृत्तेरिति ॥ १६ ॥ ऽऽ ॥
पक्षादिलक्षणमाह ।
Acharya Shri Kailassagarsuri Gyanmandir
पक्षः साध्यान्विता धर्मो साध्यजातीयधर्मवान् ॥ १६ ॥
सपक्षोऽथ विपक्षस्तु साध्यधर्मनिवृत्तिमान् ।
S
पकमुदाहरति । यथेति । व्यापकत्वं व्यनक्ति कृतकत्वस्पेति । एकदेशवर्तिनमप्युदाहरति । तथेोरेवेति । अत्र सामान्यवस्वे सतीत्यनेन सामान्यसमवाययोर्व्युदासः । अस्मदादिवाशेन्द्रियपदैः क्रमाद्योगिवाह्मेन्द्रियग्राह्यपरमा
ग्वादीनामसदाचन्तरिन्द्रियग्राह्यात्मादीनां शब्दलिङ्गैकग्राह्येश्वरपरमाण्वादीनां च निरासः । ग्राह्यपदेनासिद्धिपरिहारः । अस्य सपक्षैकदेशवृत्तित्वं व्यनक्ति । अनित्येष्विति ॥ १८ ॥ ss ॥
For Private and Personal Use Only
उत्तरश्लोकस्योक्तवक्ष्यमाणानुमानसामान्यविशेष
लक्षणानन्तर्भावादसाङ्गत्यमाशयोक्तलक्षणाकाङ्क्षितपक्षादिलक्षणपरत्वात् सङ्गतिरित्याशयेनाह । पक्षादीति ।
ર૭.