________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८५ ] रित्यर्थः। तेन पदज्ञानसत्त्वे यथाकथञ्चिदर्थस्मरणेऽपि न शाब्दबोधः । आकाङक्षेत्यादि। अत्र द्वन्द्वसमासान्ते श्रयमाणज्ञानशब्दस्य प्रत्येकमन्वयादाकाङक्षादिज्ञानानां सहकारिकारणत्वं बोध्यम् । अन्यथाकाङक्षादिभूमाच्छाब्दभ्रमानुपपत्तेः। प्राञ्चस्त्वासत्तेः स्वरूपसत्तया एवान्वयबोधहेतुत्वं नतु तज्ज्ञानस्य गौरवादित्याहुः । तन्न। 'गिरिऍक्तमग्निमान् देवदत्तेन' इत्यादावन्यादिपदेन सा गिर्यादिपदस्याव्यबधानभूमाच्छाब्दबोधोदयेन स्वरूपसदासत्तेः कारणत्वे व्यभिचारादिति नव्याः। येतु सामान्यतो विशिष्टबुद्धि प्रति बाधनिश्चयस्य प्रतिबन्धकत्वादेव बहिना सिञ्चतोत्यादौ सेककरणत्वाभाववद्वह्निरित्ययोग्यतानिश्चयेन प्रतिबन्धादन्वयबोधविरहोपपत्ते ोग्यताज्ञानस्य न शाब्दबोधेहेतुत्वं किन्तु स्वरूपसत्या योग्यताया एवेति मन्यन्ते, तेषान्तु यद्विषयकमनुमित्यादिकं कदापि न जातं जातस्तु तद्विषयक: शाब्दबोध एवेति तत्र तद्विशिष्टयुद्धावयोग्यतानिश्चयत्वेन प्रतिबन्धकत्वस्य तदव. च्छिन्नाभावत्वेन कारणत्वस्य च कल्पनं न सम्भवतीति तादृशान्वयबोधे तदीययोग्यताज्ञानस्यैव कारणताया अभ्युपेतव्यत्वाद् यद्विशेषे इत्यादिन्यायेन शाब्दत्वावच्छिन्नं प्रति योग्यताज्ञानत्वेन कारणत्वकल्पनमावश्यकमिति बोध्यम् ॥ ५३॥
॥ तर्कामृतम् ॥ स्वरूपयोग्यत्वे सत्यजनितान्वयबोधकत्वमाकाङक्षा। तेन 'घटः, कर्मत्वं आनयनं कृतिः' इत्यत्र नान्वयबोधः स्वरूपायोग्यात्वात्। 'अयमेतिपुत्रो राज्ञः पुरुषोऽपसार्य्यताम्' इत्यत्र राज्ञः पुरुष इति नान्वयवोधः पुत्रोण जनितान्वयवोधकत्वात् । वाधकप्रमाविरहो योग्यता। तेन 'वह्निना सिञ्चति' इत्यत्रनान्वयवोधोऽयोग्यत्वात् । अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिः। न तेन 'गिरि भुक्तं वह्निमान् देवदत्तेन' इत्यत्र नान्वयबोधः। तत्तदर्थप्रतोतोच्छयोच्चरितत्वं तात्पपर्यम् । तेन भोजनप्रकरणादौ 'सैन्धवमानय' इत्युक्तेऽश्वान्वयबोधो न भवति ॥ ५४॥
॥विवृतिः ॥ तत्राकाङक्षां निरूपयति स्वरूपयोग्यत्वे सतीति । स्वरूपयोग्यत्वन्तु शाब्दबोधजनकतावच्छेदकविषयतानिरूपकतावच्छेदकानुपूर्वीमत्त्वम् । आनुपूर्वी चाव्यवहितोत्तरत्वेनाव्यवहितपूर्खत्वेन वा संसर्गेण तत्पदविशिष्टतत्पदत्वरूपा। तत्र सत्यन्तदलस्य व्यावृत्ति दर्शयति तेनेत्यादि। घटकर्मताकानयनानुकूलकृतिगोचरान्वयबोधजनकतावच्छेदिका या घटमानयेतिवाक्यनिष्ठव्यवहितोत्तरत्वसम्बन्धेन घटादिपदविशिष्टाम्पदत्वादिरूपानुर्वी तस्या अभावाद् घटः कर्मत्वमित्यादिपदैर्नतादृशान्वयबोध इति भावः। तत्र विशेष्यदलव्यावृत्तिमाहायमेतीत्यादि। तदनुपादानेऽयमेतीत्यादिवाक्येऽ
For Private And Personal Use Only For Private And Personal Use Only