________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ५५ ] कार्यमा प्रति निमित्तत्वमस्ति तथाप्यत्र वायुमात्रस्योल्लखो विशेषनिमित्तत्वशापनार्थः। तेन प्रवलवातेन तूर्ण शब्दसाक्षात्कारः सङ्गच्छते। ननु भेर्यादिदेशाबच्छेदेनोत्यनस्य शब्दस्य कथं श्रोत्रण ग्रह इत्याङ्खायामाह वीचीत्यादि। अर्णवादी तरङ्गमालोत्यादे यथै केन तरङ्गन तदृशहिमवच्छिन्नोऽपरः उत्पद्यते, तेन चापरः तेन चापर इत्यादितथादिमशब्देन स्वदृशदिगवच्छिन्नोऽपरः शब्द उत्पाद्यते, तेनच तदृशदिगवच्छिन्नोऽन्यः शब्द इत्येवं क्रमेण श्रवनेन्द्रियदेशे जातस्य श्रवणेन्द्रियेण ग्रह इत्यर्थः। अत्र मतान्तरमाह कदम्बगोलकेत्याह । प्रथमशब्दात्तदृशदिक्षु दक्षशब्दा जायन्ते, ततस्तेम्यः शब्देम्यस्तदृशदिक्षु अपरे दक्ष शब्द इत्येवं श्रवणदेशेसमुत्पन्नानां श्रवणेन ग्रह इत्यर्थः ॥ ३२॥
॥ इति गुणनिरूपनविवृतिः ॥
|| तर्कामृतम् ॥ उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि। उतक्षेपणवादीनिजातयः। पृथिवीजलतेजोवायुमनोवृत्तोनि कर्माणि सर्वाण्यमित्यानि । अतीन्द्रियवृत्तीन्यनीन्द्रियाणि। प्रत्यक्षवृत्तीनि प्रत्यक्षाणि ॥३३॥
॥ विवृतिः ॥ द्रव्यसमवेतत्वस्य तुल्यत्वेऽपि गुणजन्यत्वाद् गुणनिरूपणानन्तरं कर्म निरूपयत्युत्क्षेपणेत्यादि। नच संयोगविभागव्यतिरेकेण कर्म नास्तीति वाच्यं संयोगादि प्रतोति विलक्षणतया चलतीत्यादिप्रतीतेः सर्वानुभवसिद्धत्वात् । ऊर्द्धवात्यनुकूलचेतनक्रियोत्क्षेपणं मुषलमुक्षिपामीति व्यवहारात्। तत्रादाबुत्क्षिपामीतीच्छा, ततः प्रयत्नः, ततः प्रयत्नवदात्मसंयोगरूपासमवायिकारणात् करादावुत्क्षेपणाख्यं कर्म जायते। निमित्तकारणन्तु तत्र गुरुत्वमेव । यन्तु तत्रोत्क्षेपणविशिष्टकरादिनोदन रूपासमवायिकारणादुतक्षिप्तमूषलादावपि युगपहुतक्षेपणं जायत इति तदृढ़तरद्रव्यसंयोगान्मुषलस्योर्द्ध वगमनमेव ज्ञ यम्, तत्रच्छादेः कारणत्वे मानाभावादुत्क्षेपणव्यवहारो भाक्त एवे। एवं मुषलमवक्षिपामीतीच्छया प्रयत्नो जायते, ततश्च प्रयत्नवदात्मसंयोगात्मकारणाद्धस्तादावक्षेपणमुत्यद्यते। तत्राप्युक्त रोत्या मुषलादावपक्षेपणव्यवहारो भाक्तो बोद्धव्यः । इत्थञ्चाधोगत्यनुकूलचेतनक्रियावक्षेपणम्। प्राकुञ्चतत्त्वारम्भकसंयोगवद्दव्यवृत्ति परस्परमवयवानामनारम्भक संयोगविशेषविनाशक कर्म प्रसारणम्, यथा 'पद्म विकशति' इत्यादौ। गमनेति । यद्यप्युत्तरदेशसंयोगानु कूल कम्मैव गमनं, गमनत्वेनोतक्षेपणादेश्चाप्युपग्रहः सम्भवति तथाप्युक्तचतुष्टयभिन्नत्वे सति कर्मत्वं गमनत्वमिति पञ्चत्वसिद्धिः। अतएव एतच्छब्देननोत्क्षेपणत्वादिक.
For Private And Personal Use Only For Private And Personal Use Only