SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४६ ] ॥ तर्कामृतम् ॥ 2 अनुभवो द्विविधः प्रमाऽयथार्थश्च । तत्र प्रभा चतुर्व्विधा । सा बक्ष्यते । अयथार्थज्ञानं चतुर्व्विधं - - - संशयो विपर्य्ययः स्वप्नोऽनध्यवसायश्चेति । संशयो यथा - समानधर्मं बद्धर्म्मिज्ञानविशेषादर्शनकोटिद्वयस्मरणैरयं स्थाणुर्व्वा पुरुषो वेतिज्ञानं जन्यते स एव संशयः । बिपर्य्ययस्तु समानधर्म्म वद्धर्म्मिञ्जानविशेषादर्शन ककोटिस्मरणैः शुक्ताविदं रजमितिज्ञानं जन्यते । तत्र गुरुमते इदमित्यनुभवात्मकं ज्ञानं, रजतमिति स्मरणात्मकं तेन ग्रहणस्मरणात्मकं ज्ञानद्वयं नतु रजतत्वविशिष्टज्ञानमिदम्, अन्यथा भासमानसामग्रय सम्भवात् । प्रवृत्तिश्च स्वतन्त्रोपस्थितेष्टभेदाग्रहात् । नैयायिकमते प्रवर्त्तकं विशिष्टज्ञानं तेन भ्रमः सिध्यति । स्वप्नस्त्वनुभूत पदार्थ स्मरणैरदृष्टेन धातुदोषेण च जन्यते अनध्यवसायश्च किञ्चिदितिञ्जानम् विशेषादर्शनाद्भवति । अत्र यद्ययं निर्व्वह्निःस्यान्निद्दमः स्यादितितक विपर्य्ययमध्ये बोध्यः । तत्र नैयायिकमते स्वप्नाध्यवसायौ विपर्य्ययमध्ये प्रविष्टौ, तेन तन्मतेऽयथार्थज्ञाणं संशयोविपय्र्ययश्चेति ॥ २६ ॥ ॥ विवृतिः ॥ अथानुभवं विभजतेऽनुभवोद्विविध इति । प्रमेति भ्रमान्य इत्यर्थः । वस्तुतस्तु निर्व्विकल्पकस्य प्रमात्वोपपत्तये विशेष्यावृत्त्यप्रकारकानुभवत्वरूपं प्रमात्वं बाच्यमिति ध्येयम् । स्मृतिकरणस्य प्रमाणान्तरत्वापत्तिभिया स्मृतेः प्रमात्वेन विभागो नाभिहित इतिभावः । अत्तएव यथार्थानुभवत्वमित्यनुभवत्वघटितप्रमालक्षणमिति नव्याः । वक्ष्यत इति । अथप्रमाकथ्यत इत्यादिनेतिशेषः । अयथार्थ ज्ञानमिति । अयथार्थानुभव इत्यर्थ; स्वप्नादेः स्मृतिरूपताया भाष्यादिविरुद्धत्वान्निर्युक्तिकत्वाच्च । विभजते तच्चतुर्व्विधमिति । अयञ्च विभागः कणादमतेन, नैयायिकमतेन तु स्वप्नाध्यवसाय योर्विपर्य्यं यमध्योऽन्तर्भावस्य वक्ष्यमाणत्वात् । विधाचतुष्टयादिमं संशयं निरूपयति संशयो ययेति । तत्र संशयत्वं न जातिश्चाक्षुषत्वादिना साङ्कर्य्यप्रसङ्गात् किन्तु वक्ष्यमाणज्ञान विशेषत्वरूपम् । उच्चैस्तरत्वस्य स्थाणुपुरुष साधारण्याग्रहे स्थाणुर्व्वेति संशयानुत्पादाह समानधर्म्मवद्धमिर्मज्ञानेति । समानः – विरुद्ध कोटिद्वय सहचरितो योधर्म्मस्तद्वान् यो धम्र्मी तद्विषयक - ज्ञानेत्यर्थः । स्थाणुत्वव्याप्यवक कोटरादिमानयमित्यादिनिश्चयसत्त्वे स्थाणुर्व्वेत्यादिसंशयाजननादाहविशेषादर्शनेति । कोटिव्याप्यवत्त्वस्यानिश्चयेर्थः । स्थाणुत्वपुरुषत्वरूपकोट्योरनुपस्थितत्वे स्थाणुत्वादिकोटिकसंशयासम्भवादाह कोटिद्वयेत्यादि । कोटिद्वयेत्युपलक्षणं, संशयस्य चातुष्कोटिकत्वमते कोटिचतुष्टयस्मृतेराव श्यकत्वात् । For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy