________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २२ ] परत्वापरत्वे जनयतीति । एवं परत्र स्वसमवायिसंयुक्तत्वेनाकाशस्य सिद्धत्वेऽनियत परधर्मोपनायकतापत्तिः किञ्चात्मनामपि विनिगमना विरहेण तत्तद्रूपेण सिद्ध यापत्त्या गौरव प्रसङ्ग स्तेषामनन्तल्वादिति ध्येयम् । सा दिगेकाप्युपाधिभेदात् प्राची प्रतीची. त्यादिव्यवहारविषयतामाप्नोति । तत्रोदयगिरिसन्निहितमूर्त्तसंयोगावच्छिन्नादिक् प्राची। उदयगिरिव्यवहितमुर्त्तसंयोगावच्छिन्ना दिक् प्रतीची। सुमेरुसन्निहित मूर्त संयोगवच्छिन्नादिगुदीची। तद्व्यवहृति मूर्त्तसंयोगावच्छिन्ना दिगवाचीत्यादि शेयम् ॥ ११ ॥
तकोमतम् ।।
___ अहं सुखीत्यादि प्रत्यक्षमात्मानि प्रमाणं । ईश्वरे चानुमानं यथा-क्षितिः सकत्तका कार्य्यत्वाद् घटवत् । तेनेश्वरस्य तद्वृत्तिनित्यज्ञानेच्छाकृतीनां तत् सार्वग्यस्य च सिद्धिः। मनसि प्रमाणं यथा-सुखादिप्रत्यक्षमिन्द्रियजन्यं जन्यप्रत्यक्षत्वात् घटप्रत्यक्षवत् । तथा चेन्द्रिथान्तरवाधे मनसः सिद्धिः ॥ १२ ॥
|| विवृतिः ॥ यद्यपि सुखं द्रव्यसमवेतं गुणत्वाद् रूपवदित्याह्यनुमानतोऽष्टद्रव्यसमवेतत्ववाधादष्टद्रव्यातिरिक्तस्यजीवात्मन: सिद्धिः सम्भवति तथापि सर्वप्रमाणवलवतः प्रत्यक्षस्य तत्र प्रमाणत्वसम्भवे तदाश्रय णमेवोचितमित्याशयेनाहाहं सुखीत्यादि । विशेषगुणसम्बन्धादेवात्मनः प्रत्यक्षत्वनियमात् सुखाद्यप्रकारिकायाः केवलाहमित्याकारिकाया एकत्वप्रकारकाहन्त्वावच्छिन्न विशेष्यकप्रतीतेरात्मप्रमाणत्वासम्भवादिति भावः । विनिगमनाविरहादुःखत्वाद्यवच्छिन्नप्रकारकप्रतीतेरप्यात्म प्रमाणत्वसम्भव इत्याशयेनोक्तमादीति । प्रत्यक्षमिति । मानससाक्षात्कार इत्यर्थ । इदमुपलक्षणं, अहमित्यस्य प्रकृतिभूतं पदं सभिधेयं पदत्वाद् घटादिपदवदित्याद्यनुमानस्य "स आत्मा" इत्यादि श्रु ते: “अच्छेद्योऽयमदाह्योऽयम्" इत्यादि स्मृतेश्च जीवात्मानि प्रमाणत्वयवधेयम्। आत्मनीति। जीवात्मनोर्थः। न चोक्तप्रत्यक्षे शरीर मेव विशेष्यतया भासता मिति वाच्यं वहिरिन्द्रियव्यापारं विनापि जायमानोक्तमानस प्रत्यक्षविषयत्वस्य शरीरेऽनुपत्तेाल्ये परिदृष्टस्य कौमारे स्मरणाद्यनुपपत्ते: कृतहानाकृताभ्यागमप्रसङ्गाच्च । न च नित्यं मन एव तथाभासतामिति वाच्यं स्वस्य स्वकरणकप्रत्यक्षप्रमेत्ववात् सुखादेरप्रत्यक्षत्वापत्तेश्च न च बहिरिन्द्रियाणां तथा नासमानत्वं कल्प्यमिति वाच्यं तथा सति चक्षुरादिसत्त्वदशायां गृहीतस्य वस्तुनोऽन्यत्वादि दशायां स्मरणानुपपत्तेरनुभवस्मरणयोः सामानाधिकरण्यप्रत्यासत्त्येव कार्यकारण भावात। अन्यथा तवानुभूते ममापि स्मरणं स्यात् । तदुक्तमाचार्यैः
For Private And Personal Use Only For Private And Personal Use Only