________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १२ ] विशेषणताविशेषसम्बन्धेन वृत्तिमतः समवाय्यसमवायिकारणयोरप्रसिद्ध रुपसंहरति एतदिति । भावकार्यमात्रस्येति मात्रपदेनाभावात्मककार्यव्यवच्छेदः ।
तदेतत्रिविधकारणत्वं कस्य कस्य साधर्म्यमित्याकाङ क्षयाह तत्र समवायिकारणमित्यादि । तत्र-कारणत्रयेषु मध्ये। गुणादौ जन्यस्यासमवेतत्वात् समवायि-कारणताया असम्भवादाह द्रव्यमेवेति । अत्र वकारस्यान्ययोगव्यवच्छेदार्थकत्वेन गुणादिव्यवच्छेदकत्वं बोध्यम् । अतएवोक्तं विश्वनाथेन 'समवायिकारणत्वं द्रव्यस्यैवेति विज्ञ यम्' इति । महर्षिणापि 'कारणमिति द्रव्ये कार्यसमवायात् इति' सूत्रण तथैवाभिहितं द्रष्टव्यम् । न चोत्पत्तिकालावच्छेदेन घटादौ समवायिकारणत्वमव्याप्तमिति वाच्यं समवायिकारणवृत्तिसत्तान्यजातिमत्त्वस्य विवक्षितत्वात् । असमवायिकारणत्वं न द्रव्यसाधम्यं द्रव्येऽसमवायिकारणताया असम्भवादत आह द्रव्ये गुण इति। यथा कपालसंयोगादेघटाद्यसमवायिकारणत्वमिति । द्रव्यमिव गुणं प्रत्यपि गुणादेरसमवायिकारणत्वादाह गुणे गुण इति । यथा घटरूपादौ कपालरूपादेरसमवायिकारणत्वमवयवगुणानामवयविनिष्ठगुणासमवायिकारणत्वात्तादृशावयविगुणानां कारणगुणप्रक्रमजन्यत्वनियमात् । तदुक्त विश्वनाथेन 'अपाकजास्तु स्पर्शान्ता द्रवत्वञ्च तथाविधम् । स्नेहवेगगुरुत्वैकपृथक्त्व परिमाणकम् ॥ स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः ॥ इति । कर्म चेति । संयोगविभागादेः क्रियाजन्यत्वादिति भावः । इदमुपलक्षणं कर्मण्यपि गुणस्यासमवायिकारणत्वमवधेयम् । यथा शरस्पन्दादौ शरवेगादिकम् । सर्वत्र व पदार्थे निमित्तकारणतायाः सम्भवानिमित्तकारणत्वं कस्य साधर्म्यमिति विस्पष्टं निर्देष्टुमशक्यत्वेऽपि कार्य्यसामान्यं प्रति कारणनिरूपणेन तदाह कार्यमात्र प्रतीति । कार्यत्वावच्छिन्न प्रतीत्यर्थः। साधारणकारणानीति । साधारणत्वं नाम जन्यत्वव्यापककार्यतानिरूपितत्वम् । तथा च यादृशकारणतानिरूपितकार्य्यता जन्यत्वव्यापिका तादृशकारणताश्रयीभूतानीत्यर्थः। ईश्वर इति । कार्यमात्र एवेश्वरस्य नियतपूर्ववत्तित्वेन कारणत्वमिति भावः । न चेश्वरस्यान्यथासिद्धत्वं स्यादिति वाच्यं क्षित्याङ्क - रादिकार्यविशेषे सकत कत्वान्यथानुपपत्त्येश्वरस्यानन्यथासिद्धत्वे वाच्ये विनिगमनाविरहेण कार्य मात्र एवानन्यथासिद्धत्वस्य वक्तव्यत्वात् । तस्य च सर्व्वमूर्त्तसंयोगित्वाद् द्रव्यात्मककायें तनिष्ठकारणतावच्छेदकः सम्बन्धस्तादात्म्यम्, तन्निरूपितकार्य्यतावच्छेदकः सम्बन्धस्तु संयोगः । गुणादौ तु कार्ये स्वाश्रयसंयोगादेः कार्य्यतावच्छ दकसम्बन्धत्वं तादात्म्यस्य च कारणतावच्छेदकसम्बन्धत्वम् । अथवा समवायस्वरूपान्यतरसम्बन्धेन कायं प्रति स्वज्ञानविषयत्वसम्बन्धेनेश्वरस्य कारणत्वमित्यादिकमूह्यम् । ईश्वरस्य कारणत्वे सिद्ध विनिगमकाभावेन तदीयज्ञानेच्छाकृतीनां नित्यानां कार
For Private And Personal Use Only For Private And Personal Use Only