________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १० ।
॥ विवृतिः॥ प्रकारान्तरेण द्रव्यसाधर्म्यवैधर्म्य निरूप्य न्यूनतापरिहाराय जन्यद्रव्याणामुत्पत्तिप्रकारमुपपादयितुमवतारयति अथ द्रव्योत्पत्तिरिति। तत्रेति । द्रव्येषु मध्ये इत्यर्थः । उत्पत्तिरिति । आद्यक्षणसम्बन्ध इत्यर्थः। तदाद्यक्षणत्वञ्च तदधिकरणक्षणध्वंसानधिकरणत्वे सति तदधिकरणक्षणत्वरूपम् । नित्यानामनाद्यनन्तत्वादुत्पत्त्यसम्भवादाह कारणवत इति । प्रागभावप्रतियोगिन इत्यर्थः । कारणस्वरूपं निक्ति अनन्यथासिद्ध ति । अनुगतस्यान्यथासिद्धत्वस्य दुन्निवचत्वाद् यत्र यत्र यद्यत् कार्येऽन्यथासिद्धत्वव्यवहारः प्रामाणिकस्तत्तत्कायें तत्तभेदकूटवदित्यर्थः । अन्यथासिद्धिश्च
'येन सह पूर्वभावः कारणमादाय वा यस्य अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम् । जनकं प्रति पूर्ववत्तितामपरिज्ञाय न यस्य गृह्यते,
अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः ।। इत्यनेनाभिहिता द्रष्टव्या। मणिकृतस्तु अन्यथासिद्धस्य त्रैविध्यमाहुः। नियतपूर्ववर्तीति। न च नियतपूर्ववत्तित्वनिवेशनं व्यर्थमन्यथासिद्धभिन्नत्वस्यैव लाधवतः कारणत्वादिति वाच्यं भेदकूटलाघवार्थ तन्निवेशस्यावश्यकत्वादन्यथाऽनियतपूर्ववत्तिनामन्यथासिद्धानां भेदस्याप्यन्यथासिद्धभेदकूटमध्ये प्रवेशाद् गौरवापत्तः। नियतपूर्वपत्तित्वञ्च का-व्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपं बोध्यम् । तथा च घटादिकायें दण्डत्वाद्यन्यथासिद्ध ऽतिव्याप्तिवारणायानन्यथासिद्धेति । विशेषविभागस्य सामान्यलक्षणज्ञानापेक्षत्वात कारणसामान्यलक्षणमुक्त वा कारणविभागमाह त्रिविधानि कारणानीति । विधात्रयं दर्शयति समवायीत्यादि । विभक्तानामपि कारणानामितरेतरव्यावृत्तिज्ञानस्य प्रत्येकलक्षणज्ञानाधीनत्वात् समवायिकारणलक्षणमुद्देशकमेणादावाह यत् समवेतमिति । यस्मिन् समवायसम्बन्धेन वृत्तिमत् सदित्यर्थः। समवायिकारणमिति । समवायसम्बन्धेन कार्याधिकरणवृत्तिभेदप्रतियोगितानवच्छेदकधर्मवत्त्वं समवायिकारणत्वमिति भावः। न च समवायेन घटायधिकरणे कपालादौ द्रव्यत्वादिना भेदस्याप्यसत्त्वादतिव्याप्तिरिति वाच्यं तद्रपेणान्यथासिद्धन्वात् । अत्र कार्यतावच्छेदकसम्बन्धत्वं समवायस्य कारणतावच्छेदकसम्बन्धत्वं तादात्म्यस्येति बोध्यम् । अथवा समवायसम्बन्धावच्छिन्नकार्य्यतावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छेदकधर्मवत्त्वं समवायिकारणत्वमिति बोध्यम् । लक्ष्यं प्रदर्शयति यथा परमाणुरिति । नित्ये लक्ष्यत्वमुक्त्वाऽनित्ये तदाह कपालमिति ।
For Private And Personal Use Only For Private And Personal Use Only