________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १.६ ] इति । चरमपदार्थ सम्बन्धिनीत्यर्थः। तथा चैकदेशान्वयस्वीकारे चोक्तस्थले गोपदस्य गोस्वामिनि लक्षणा, गवि चित्रपदार्थस्याभेदान्वयः। एकदेशान्वयानभ्युपगमेतु गोपदस्यैव चित्रगोस्वामिनि लक्षणा, चित्रपदं तादृशर्थे तात्पर्य ग्राहकमिति संक्षेपः। __ कर्मधारय तत्पुरुषाव्ययोभावबहुबोहिद्वन्द्वानां मध्ये बहुव्रीहितत्पुरुषयो लक्षणाया आवश्यकत्यस्य प्रतिपादितत्वात् "उपकुम्भम्" इत्यादावपि कुम्भसम्बन्ध्यभिन्नं समीपमित्याद्यन्वयबोधोदयात् कुम्भादिपरपदस्य कुम्भादिसम्बन्धिनि लक्षणाया अभ्युपेतव्यत्वात् फलितार्थमुपसंहरति तथाचेति । "धवरवदिरौ छिन्धि" "पाणिपादं वादय" इत्यादि द्वन्द्व “नोलोतप्लम्" इत्यादि कर्मधारये च लक्षणां विनैव धवखदिरकर्मताकच्छेदन विषयकस्य, करचरणकर्मताकादनविषयकस्य, नोलाभिन्नोत्पलविषयकस्य चान्वयबोधस्योत्पत्तेराह द्वन्द्व कर्मधारयान्यसमास इति । नचेतरेतर द्वन्द्व "धवखदिरौ" इत्यादावन्वयबोधे साहित्यभानार्थ खदिरादिपदस्य धवखदिरादिसाहित्ये लक्षणाश्रयनीयेतिवाच्यं तत्र साहित्यस्याननुभवात् साहित्य. शून्ययोरपि घटत्वपटत्वाद्योोधे “घटत्वपटत्वे" इत्यादि द्वन्द्वदर्शनात् साहित्यस्य दुन्निवचत्वाच। नापि समाहारद्वन्द्वे "पाणिपादम्" इत्यादौ पादाद्युत्तरपदस्य पाणिपादादिसमाहारे लक्षणा, समाहारस्याननु भवाद्दुर्चचत्वाद् . गौरवाच्च। तथापि तस्य समाहारसंज्ञया व्यपदेशस्तु "द्वन्द्वै कत्वम्” इत्या. दिनानुशिष्ट कवचनसाधुत्वायेतिबोध्यम्। वस्तुतस्तु समस्यमानपदार्थतत्तावच्छेदकभेद एव “चार्थेद्वन्द्वः" इति सुत्रोण द्वन्द्वविधानात्तत्राभेदान्वयोपपत्तये लक्षणा कल्पनप्रयासः प्रयास एव । अत्र कर्मधारयपदं द्विगोरप्युपलक्षकं तत्रपि विनालक्षणामभेदेनान्वयबोधस्यानुभविकत्वात् तथाहि “पाञ्चपुरुषिः" "पञ्च गवधनः" "पञ्चपुलो" इत्येतेषु तद्धितार्थोत्तरपदसमाहार. द्विगुषु पञ्चानां पुरुषाणामपत्यं, पञ्चताबोधनमस्य, पञ्चानां पुलानां समाहार इत्येभि ाक्यैः पुरुषादि पदार्थे पञ्चपदार्था भेदान्वयः सूपपन्नः। एवमन्यत्रापि। तत्तदर्थे इति । यत्र समासे यत् पदार्थे यत् पदस्य लक्षणा युक्ता तत् समासे तत् पादार्थे तत् पदस्य लक्षणेत्यर्थः। इत्थञ्च वैयाकरणानां समासे शक्तिकल्पनं न साधीयः, पदशक्त्यैव निर्वाहाद् गौरवाच ॥ ६७ ॥
॥ तर्कामतम् ॥ एवं नओऽर्थोऽमावः। “अघटं भूतलम्" इत्यादौ घटभिन्ने लक्षणा। "न कलज भक्षयेत्" इत्यादौ वलवदनिष्टजनकत्वे लक्षणा || ६८ ॥
For Private And Personal Use Only For Private And Personal Use Only