________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १०७ ] विशेषणविभक्त निरर्थकत्वपक्ष इत्यर्थः। वाक्यसमासयोरिति । समासोपयोगिविग्रहवाक्य-समस्यमानसमस्तपदयोरित्यर्थः। पर्यायतेति। विभिन्नानुपूर्वीकत्वे सति समानार्थप्रतिपादकतेत्यर्थः। न घटत इति । कुत इत्याकाङक्षानिवृत्तये आह वाक्ये इत्यादि। वाक्येऽभेदस्य संसर्गत्वे बाधकयुक्ति दर्शयत्यमेदस्य पदार्थत्वेनेति । अम्पदोपस्थाप्यार्थत्वे नेत्यर्थः। प्रकारत्वादिति । तथाचाभेदस्य प्रकारतया भानं प्रति विशेष्यवाचकपदोत्तरविभक्तिसमानविशेषणवाचकपदोत्तरविभाक्तयुपस्थाप्यत्वं तन्त्रमितिभावः। न संसर्गत्वमिति। न चैवं "अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववत्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते। यथा 'नीलो घटः' 'नीलं घटमानय' इत्यादौ घटादौ नीलादेः" भट्टाचार्य्यवचनविरोध इतिवाच्यं सिद्धान्ते "अभेदस्य संसर्गमर्यादयाभानन्तु समासस्थल एव, तत्र लुप्तविभक्त्यनुसन्धानं विनापि शाब्दबुद्ध रानुभाविकत्वात्" इत्यनेन सन्दर्भेन भट्टाचाय्यैरपि वाक्येऽभेदस्य प्रकारतया भानस्य स्वीकृतत्वात् । विशेष्यपदार्थे विशेषणपदार्थान्वयप्रयोजकस्य प्रकारतया भानासम्भव एव संसर्गमर्यादया भानस्याम्युपेतव्यत्वादिति भावः। नचैतन्नियमो निष्प्रमाणक इति वाच्यं शाब्दबोधे प्रकारतया भानं प्रति वृत्तिज्ञानजन्योपस्थितिविषयत्वस्य प्रयोजकत्वात, आकाङ्क्षा भास्ये च संसर्गे तद्वाधात् । यद्यप्यन्विताभिधानवादिभिर्मोमांसकगुरुभिः संसर्गेऽपि शक्तः स्वीकारादभेदादेः संसर्गमर्यादयाभानमनादेयमेव तथाव्यवश्यक्ल प्ताकाङक्षाभास्यत्वेनैवोपपत्तौ संसर्गे शक्तिकल्पने गौरवेण नैयागिकै स्तेषां मतस्य दूषितत्वान्नानुपपत्तिरिति ध्येयम् ॥ वाक्येऽभेदस्य संसर्गत्वाभावमुपपाद्य समासे तस्य संसर्गत्वमुपपादयितुमाह नोलघटमित्यादाविति । ननु “नोलघटम्" इत्यादौ नीलपदस्य नोलाभेदत्वावच्छिन्ने लक्षणयैव शाब्दबुद्ध रुपपत्तेरभेदस्य संसर्गत्वस्वीकारोऽनतिप्रयोजनक इत्याशङ्कामपनेतुमाह लक्षणाया अस्वीकारेणेति। शक्त्यैव चरितार्थत्वे लक्षणाश्रयणस्यान्याय्यत्वादिति भावः। अतएव "निषादस्थपति याजयेत्' इत्यत्र लक्षणापत्ते न तत्पुरुषः किन्तु कर्मधारय एव लक्षणाभावादिरयुक्तम् । वस्तुतस्त्विदभुपलक्षणं, लुप्तविभक्त्यनुसन्धान विनाप्यन्वयबुद्ध रानुभविकत्वेनेत्यपि बोध्यम् ॥ ननु वाक्यसमासयोः पर्यापतार्थ मणिकृता “राजपुरुष इत्यादौ पूर्व्यपदे षष्ठ्यर्थसम्बन्धे लक्षणा" इत्युक्त न सङ्गच्छते "नोलं घटम्" "नोलघटम्" इत्यादावुक्तरीत्या वाक्यसमासयोरपर्यायत्वस्य दृष्टत्वादित्याह तथाचेति । उक्तकर्मधारये वाक्यसमासयोरप-यत्वे चेत्यर्थः। पर्यायानुरोधेनेति । यथा "राज्ञः पुरुषः" इति वाक्यो षष्ठ्यर्थः सम्बन्धः पुरुषे प्रकारविधयान्वेति तथा "राजपुरुषः" इति समासेऽपि राजपदलक्षितस्य राजसम्बन्धस्य पुरुषे प्रकार
For Private And Personal Use Only For Private And Personal Use Only