________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १०५ ] फलवत्येव तयोः शक्तिकल्पनस्य लाघवेन युक्तत्वात् ॥ ननु कर्तुः शत्रादिवाच्यत्वे "जानन्तं चैत्रमुपदिशति" इत्यादावन्वयबोधानुपपत्तिर्ज्ञानानुकूलत्वस्य कृतौ बाधितत्वेनज्ञानानुकूलकृतिमत्त्वरूपज्ञानकत्तत्वाप्रतीरित्याशङ्का लक्षणयापनेतुं भूमिकामाइ शत्रादीनामिति । आदिना कत्त शानच् तृजादेःपरिग्रहः। पचादिधातूत्तरशतृप्रत्ययस्यार्थनिर्णये लक्षणाश्रयणस्याप्रयोजनकत्वादाह वाच्य इति । ईश्वरेच्छोय. बोधजनकत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रय इत्यर्थः । अतएवानुशासनमपि "कर्तरिकृत्" इत्यादिकम् । शतृप्रत्ययस्य यत्रलक्षकत्वं तादृशप्रयोगामिप्रायेणाह सविषयार्थकप्रकृतिकानामिति । शत्रादीनामिति पूर्वणान्वयः। ज्ञानाद्यर्थकधातूत्तरत्तिनामिति तदर्थः । लक्षणेति । शक्यार्थस्य कर्तु धादितिभावः । तथाचोक्तस्थले "ज्ञानाश्रयं चैत्रमुपदिशति" इत्येवान्वयवोधः। कत्त कर्म विहितकृत्प्रत्ययार्थविचारमुपसंहरति एवमिति । कत कर्मकृतामिति । कर्तरि कर्मणि च वाच्ये बिहितकृत्प्रत्ययानामित्यर्थः। तेन तेन रूपेणेत्यर्थः। कृतिमत्वेन फलत्वेन च रूपेणेन्यर्थः । भावविहितकृत्प्रत्ययानामर्थनिरूपयितुमाह भावकृतामिति । भाववाच्ये बिहितकृत्प्रत्ययानामित्यर्थः। तेन "अकर्तरि कारके संज्ञायाम्" इत्यनेन “आहारः" इत्यादौ कर्मणि बिहितधना धात्वर्थमात्रस्यानुपस्थापनेऽपि न क्षतिः। नङ घनादीनामित्यादिना "नपुंसके भावे क्तः" इत्यादिनानुशिष्टस्य क्त्वादेरुपग्रहः। शत्रादिवद्भावविहितानामतिरिक्तार्थकत्वासम्मवादाह प्रयोगसाधुत्वमात्रमिति। आकाङक्षाविशेषसम्पादकतयेत्यादिः, प्रयोजनमिति शेषः । “भावे घन" इतिसूत्रस्थभावपदस्य समभिव्याहृतधात्वर्थवृत्त्यसाधारणधर्मपरत्वादाह धात्वर्थातिरिक्तस्येति । अनुपस्थापनादिति । उपस्थापयितुमशक्यत्वादिति तदर्थः। तथाच भावकृता धात्वर्थमात्रमुपस्थाप्यत इतिभावः। एवञ्च “पाकं पश्य' इत्यादौ घनाद्युपस्थाप्यस्य पचनादेद्दितीयाद्यर्थकर्मत्वादावन्वयोपपत्तिः, अन्यथा सुवर्थे प्रकारतया धात्वर्थान्वयस्याव्युत्पन्नत्वात् पचनकर्मताकदर्शनान्वयबोधास्तत्र न स्यात् । अतएव च "स्तीक: पाकः” इत्यादि प्रयोगोऽपि प्रमाणम् । अन्यथा पचनादेख्तूपस्थाप्यत्वे तद्विशेषणीभूतस्तोकादिवाचकस्तोकादिपदात् "क्रियाविशेषणानामकत्वं कर्मत्वं नपुंसकत्वञ्च "इत्यनुशासनाद्वितीयापत्तेः । वस्तुतस्तु घनर्थविशेषणत्त तात्पर्येण “स्तोकः पाकः" इतीव धात्वर्थविशेषणत्वतात्पर्येण "स्तोकं पाकः" इत्यपि प्रमाणमितिध्येयम् । न चैवं भावकृत्प्रयोगे कृतेव धातुनापि स्वार्थोपस्थापने बाधकाभावाद्धात्वर्थ द्वयभानापत्तिरिति वाच्यं भावकृत् समभिव्याहारस्य धातुना स्वार्थोपस्थापने बाधकत्वकल्पनात् । न च वैपरीत्ये किं विनिगमकमिति वाच्यं “पाकं पश्य" इत्यादावन्वयबोधानुपपत्तेरेव विनिगम
For Private And Personal Use Only For Private And Personal Use Only