________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १.१ ] अन्तरा विजातोयक्रिया कर्तरि “पापच्यते” इत्यादि प्रयोगबारणाय सजातीयेत्युभयक्रियाविशेषणम् । साजात्यञ्च प्रकृत्यर्थतावच्छेदकधर्मपुरष्कारेण बोध्यम् । तेन विजातोयक्रियाणां मेयत्वादिना साजात्यस्य सत्त्वेऽपि न क्षतिः। अत्र समानकत कत्वमपि निवेश्यम्, अन्यथा पुमन्तरोयपाकानन्तरं स्वकीयपाकदशायां "पापच्यते'' इति प्रयोगप्रसङ्गः। सजातीयक्रिययो यौंगपद्यानम्युपगमादुक्तं ध्वंसेति । अतीते भविष्यति च काले पाकादिक्रियायाः पौनःपुन्यसम्भवादाहादीति । ननु लड़ादिना वर्तमानत्वादेराख्यातेन च कृते रुपस्थापनसम्भवाद्विशिष्टस्य यर्थत्वे बैयर्थ्यमित्याशङ्कां परिजिहीपुराह पापच्यत इत्यादाविति । आदिना "बोभुज्यते" इत्यादेरुपग्रहः । तादृशकालीनत्वमिति, इदानीन्तनप्रकृत्यर्थसजातीयकियोत्तरत्वविशिष्ट क्रियाध्वंसकालीनत्वमित्यर्थः। प्रत्याय्यत इति। विशेषणतया मूलधात्वर्थे इत्या दः । तथाच "चैत्रः पापच्यते' इत्यादाविदानीन्तनपाकोत्तरत्वविशिष्टपाकध्वंसकालोनपाकविषयककृतिमांश्चैत्र इत्याद्यन्बयवोधः । वस्तुतस्तु यत्र पूर्व दिवसीयान्तिमक्षणद्वये पाकद्वयं कृत्वा परदिवसोयादिमक्षणे पचति तत्रापि "पापच्यते” इति प्रयोगादिदानीन्तनत्वगर्भ पौनःपुन्यत्वं न सम्यक् किन्तु प्रकृत क्रियासजातीयक्रियोत्तरत्वविशिष्टक्रियाध्वंसकालीनत्वरूपमेव तद्वाच्यम् । न च बक्ष्यमाणस्थ लकालमादाय तदुपपादनीयमितिवाच्यं गौरवादिति ध्येयम् । यङो विशिष्टार्थवाचकत्वाभावे युक्तिमाहाख्यातस्येत्यादि। "पापच्यते" इत्यदावाख्याते लट्त्वस्याख्यातत्वस्य च सत्त्वालटत्वेन बर्तमानत्वस्याख्यातत्वेन च कृतरुपस्थितेराह चरमदलवाचकत्वादिति । विशेष्यदललभ्यवर्त्तमानादिकृतिवाचकत्वादित्यर्थः । यच्च विशेष्यदले विषयत्वं तत्तु संसर्गमर्यादालभ्यमिति बोध्यम् । ननु तृतीयादिपाकदशामेव "पापच्यते" इति प्रयोगात्तत्काले च प्रथमपाकस्याभावात् प्रथमपाके प्रयोगाधिकरणीभूतकालवृत्तित्वरूपस्येदानीन्तनत्वस्याभावादसङ्गतिरित्याशङ्कां निराचिकोर्षुराह इदानोन्तनत्वञ्च स्थूलकालमादायेति । अत्र कालस्य स्थ् लत्वमननुगतमेव ग्राह्यम् । तेन यत्र यावता कालेन कृतासु क्रियासु पौनःपुन्यमनुभवसिद्ध तत्र तावानेव कालः स्थूलत्वेनोपादेयः फलबलादिति नानुपपत्तिः।
इदमत्रावधातव्यम्-सर्वत्र पौनःपुन्यमात्र न यर्थः किन्तु “गत्यर्थात्कौटिल्य एव" "लुप्यादेर्गह्यात्" इत्याद्यनुशासनात् "जंगम्यते” इत्यादौ कौटिल्यं "लोलुपते" इत्यादौ च गहितत्वमपि । तदपि पौनःपुन्यमिव मूलधात्वर्थ एवान्वेति । तथाच "जंगम्यते" इत्यत्र दानोन्तनगत्युत्तरत्व विशिष्टगतिध्वंसकालीनकुटिलगतिमानित्यन्वयबोधः। एवमन्यत्राप्यूह्यम् ।........."शुभिरुचिभ्यां न स्यात्" इतिनिषेधात् पुनः पुनः शोभत इत्याद्यर्थे "शोशुभ्यते" इत्यादि नै प्रयोगः। यत्र
HHHHHHH
For Private And Personal Use Only For Private And Personal Use Only