________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
73
ल्पतां चक्षुर्यज्ञेन कल्पता५ श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेने कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पता
सुर्वर्देवा५ अंगन्मामृता अभूम प्रइति वि-अनः । यज्ञेन । कल्पताम् । "चक्षुः । यज्ञेन । कल्पताम्।"श्रोत्रम् । यज्ञेन । कल्पताम् । "मनः । यज्ञेन । कल्पताम् । "वाक् । यज्ञेन । कल्पताम् । “आत्मा। यज्ञेन । कल्पताम् । "यज्ञः। यज्ञेन । कल्पताम् । "सुवः । देवान् । अगन्म । अमृताः । अभूम । प्रजापतेरित प्रजा-पतेः । वा । तद्यज्ञेनानेन कल्पतां मम सम्पद्यतां यथाश्रुतं भूयात् । प्राणादीनां कल्पनं स्वकार्यकरणसामर्थ्यम् । पदानि व्याख्यातानि । यज्ञस्य कल्पनं अविच्छेदेन प्रवर्तनम् ॥ ___"आरुह्य बाहू उद्गृह्णाति-सुवरिति ॥ सुवः स्वर्ग देवांश्च तत्रस्थान् सर्वान् अगन्म गतवन्तो वयम् । 'अस्मदो द्वयोश्च' इत्येकस्मिन् बहुवचनम् । अनेन निश्श्रेण्यारोहणेन स्वर्ग देवांश्च प्राप्ता वयमिति । छान्दसो भविष्यति लङ् । अनेनारोहणेन स्वर्ग देवांश्च गमिष्यामो वयमिति । 'आशंसायां भूतवञ्च' इति वा भविष्यति भूतप्रत्ययः । साहितिकौ रुत्वानुनासिकौ । अमृता अमरणा अभूम भविष्यामो वा । 'न जो जरमर'
For Private And Personal Use Only