________________
Shri Mahavir Jain Aradhana Kendra
72
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
व॑श्च मू॒र्धा च॒ व्यनि॑ियश्चाऽऽन्त्यायनश्वाऽन्त्य॑श्च भव॒नश्च॒ भुव॑न॒श्वाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्राणो य॒ज्ञेन॑ कल्पतामपा॒नः ॥ ३८ ॥ य॒ज्ञेन॑ कल्पता॑ व्या॒नो य॒ज्ञेन॑ कसुव॑ः । च॒ । मू॒र्धा । च॒ । व्यद्भि॑य॒ इति॑ वि- अनि॑यः । च॒ । आ॒न्त्या॒य॒नः । च॒ । अन्त्य॑ः । च । भा॒व॒नः । च॒ । भुव॑नः । च॒ । अधि॑पति॒रित्य— प॒ति॒ः । च॒ । 'आयु॑ः । य॒ज्ञेन॑ । क॒ल्प॒ताम् । प्रा॒ण इति प्र - अनः । य॒ज्ञेन॑ । कल्पताम् । अपान इत्य॑प - अ॒नः ॥ ३८ ॥ य॒ज्ञेन॑ । क॒ल्प॒ताम् । "व्यान
8
1
10
"
मोपलब्धेः प्राधान्यात् । व्यश्नियः रात्रिः विविधमन्नं व्याप्तिर्वा व्यश्नः तत्र साधुः व्यश्नियः सर्वपरिणामहेतुत्वात् । आन्त्यायनः मासः, रविग - त्योः अन्ते भवे अयने अन्त्ये; तयोरपत्यस्थानीयत्वात् । संवत्सरो वा अन्त्यः; सर्वमासान्तभवत्वात् । तस्यापत्यस्थानीयो मास आन्त्या - यनः । नडादिंर्द्रष्टव्यः । अन्तशब्दाद्वा गर्गादियञन्तात् ' यञिञोश्च इति फक् । अन्त्यस्संवत्सरः मासानामन्ते भवः । भौवनः प्रजापतिः भुवनात् विश्वोपादानादुत्पन्नत्वात् । भवत्यस्माद्विश्वमिति भुवनः । औणादिकः क्युन्प्रत्ययः । अधिपतिः ततोप्यधिको विश्वस्य पतिः विश्वाधिको देवः । एते वाजादयो मम सन्तु इति शेषः ॥
;
For Private And Personal Use Only
7- "दशभिः कल्पैरोहति – आयुर्यज्ञेनेति ॥ आयुर्जीवनमन्नं
----