________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66
तैत्तिरीयसंहिता.
का. १. प्र. ७.
M
वीत्वत्पथामङ्कास्यन्वापीफणत्। उत स्मास्य द्रवतस्तुरण्यतः पर्ण
न वेर वाति प्रगर्धिनः। श्ये॒नस्यैव का सि । अन्विति । आपनीफदित्या-पनीफणत् । "उत । स्म । अस्य । द्रवतः। तुरण्यतः । पूर्णम् । न । वेः । अन्विति । वाति । प्रगर्धिन इति प्र-गर्धिनः । श्ये॒नस्य । इव । धजतः । अत्तरपदप्रकृतिस्वरत्वम् । दधिक्राः धारकान् पर्वतादीन् क्रामन् दूरस्थानपि सहसावक्रामन्निति यावत् । (पर्वतादीन् माक्षि वा) । 'जनसन' इत्यादिना विट् , 'विडनोरनुनासिकस्यात् ' इत्यात्वम् । पुनश्च विशेष्यते-पयां मार्गाणां अडांसि लक्ष्मस्थानीयानि कुटिलानि निम्नोन्नतत्वादीनि वा । अकि लक्षणे, असुन् । अन्वापनीफणत् अनुक्रमेण ऋजुत्वं समत्वं च पथामापादयन् । दाधर्त्यादौ निपात्यते, पूर्ववत्स्वरः । एवं कुर्वन् तुरण्यति ॥
16उत स्मेत्यादि ॥ स्मेति पादपूरणे । अपि चास्य द्रवतः गच्छतः तुरण्यतः त्वरमाणस्य । 'शतुरनुमः' इति षष्ठया उदात्तत्वम् । अस्येत्यन्वादेशानुदात्तत्वम् । प्रगधिनः गन्तव्याक्रमणाभिकाङ्गिणः अस्याश्वस्याङ्कसं देहासक्तं चामरादिकं वस्त्रादिकं चास्य लक्षणभूतं तत्सर्वं परितः सर्वस्मिन्नपि देहे विद्यमानं अनुवाति गच्छति । अङ्कतेरौणादिकोसिच्प्रत्ययः । कस्येव किमिव चेत्यत्राह-श्येनस्येव वेः पक्षिणः ध्रजतो गच्छतः । ध्रन गतौ । पर्ण न पत्रमिव पत्रार्थं प्रगधिनः आमिषार्थिनः । अने
For Private And Personal Use Only