________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता.
nAmAAN
अमीवाः । एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष
आसनि । क्रतु दधिक्रा अनु सन्त"एषः । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बुद्धः । अपिकक्ष इत्यपि-कक्षे । आसनि । ऋतुम् । दधिका इति दधि-काः । अन्विति । सन्तवीत्वदिति सं-तीत्वत् । पृथाम् । अ
_1प्रत्याधावतोनुमन्त्रयते---एष स्य इति जगती ॥ स्योश्वः सामान्येनोच्यते । एप स्यः स एषः वाजी अश्वः । 'स्यश्छन्दसि बहुलम्' इति सुलोपः । क्षिपणि कशां क्षिप्यतेनयेत्यनिः । तुरण्यति त्वरयन्नतीव शीघ्रं प्रस्थापयति । तुरण त्वरायाम, कण्ड्वादिरन्तर्भावितण्यर्थः । विभक्तिव्यत्ययो वा । क्षिपण्या क्षिपणिप्रहारेण त्वरयते तूर्णं गच्छति । ग्रीवायां बद्धः उरोवद्रेण अपिकक्षे कक्षेपि कक्ष्यया बद्ध इत्येव । 'सुप्सुपा' इति समासः । यद्वा--कक्ष्यायामपीतः अपिकक्षः अवयवविशेषः यत्र कक्ष्यया बद्धयते । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । आसनि आस्ये च बद्धः खलीनेन । 'पद्दन्' इत्यादिना आसन्नादेशः। एवमेषु स्थानेषु बद्धोप्येवं शीघ्रो भवतीति अन्यो ह्येषामेकत्रापि बद्धश्चलितुमपि न शक्नोतीति भावः । पुनश्च विशेष्यते--क्रतुं सादिनः प्रज्ञामभिप्रायं कर्म वात्मीयं यन्महाश्वानामुचितं भवति; तत् अनुसन्तवीत्वत् अनुसंवर्धमानः अनुविदधान इति यावत् । अनुक्रमेण वा संवर्धयन् । तु इति वृद्धिकर्मा, ततो य१कि 'गुणो यतकोः' इति गुणे कृते अभ्यासस्येडागमः, शतरि 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम्, कडु
For Private And Personal Use Only