________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोभास्करभाष्योपेता
411
कुर्यादति प्रयुक्त्या एतयैव यजेताभिचर्यमाणो देवताभिरेव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्म स देवताश्चैव यज्ञं च
मध्य॒तो व्यव॑सर्पति तस्य न कुतक्तया इति प्र-युक्तौ । एतया । एव । यजेत । अभिचर्यमाण इत्यभि-चर्याणः । देवाशिः। एव । देवताः । प्रतिचरतीति प्रति-चरति । यज्ञेने । यज्ञम् । वाचा । वाचम् । ब्रह्मणा । ब्रह्म । सः। देवताः । च । एव । यज्ञम् । च । मध्यतः। व्यवसर्पतीति वि-अवसर्पति । तस्य । न । कुतः।
प्रयुक्त्यै अतिशयेन . प्रयुक्त्यर्थम् । अभिचरन्तं सकृत्प्रयुञ्जानं द्विःप्रयोगेणाप्यतिशेत इति । यदा तु दिदिः पुरोनुवाक्यामन्वाह तदानीं त्रिस्त्रिहविषामवद्यतीति । काः पुनस्ताः पुरोनुवाक्याः ? उच्यन्ते--' अनाविष्णू महि तहां महित्वम् '* 'प्रणो देवी सरस्वती " 'बृहस्पते जुषस्व नः' इत्येताः ॥
एतयैवेति ॥ त्रिहविषा प्रकृतया इष्टया । अमिचर्यमाण इति । योभिचर्यमाणोभिचारफलमनर्थमभिचारिण्येव संक्रामयितुमिच्छति सोप्येतया यनेत । देवताभिरिति । आ तृतीयैर्देवतादिभिः
*सं. १-८-२२. सं. १.८.२२. सं. १.८.२२.७
-
For Private And Personal Use Only