________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
358
तैत्तिरीयसंहिता.
[का. २. प्र..
जव्यैव भवत्य॒ग्नये साहुन्त्याय पुरोडाशंमष्टाकपालं निपेत्सीक्षमाणोऽग्निमेव साहन्त्य५ स्वेनं भागधेयेनोपं धावति तेनैव संहते य५ सीक्ष
ते ॥ १४॥ धाति । तेजस्वी । एव । भवति । अग्नये । साहुन्त्यार्य । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सीक्षमाणः । अग्निम् । एव । साहन्त्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तेन । एव । सहते। यम् । सीक्षते ॥ १४॥ भ्रातृव्यस्यास्मिन्तेजस्वते पुरोडाशम
ष्टात्रि शञ्च ॥३॥ साहन्त्यायेति ॥ साधु अभिभविता सहन्तः । औणादिको झच् । स एव साहन्त्यः । छान्दसो यत् । सीक्षमाणः अभि. भवितुमिच्छन् शत्रून् । तितिक्षितुमिच्छन् निग्राह्यानिति केचित् । सहतेस्सनि छान्दसमीत्वमभ्यासलोपश्च । धात्वन्तरं वा सीक्षतिद्रष्टव्यः । तेनैवेति । तेन साहन्त्येनाग्निना सहायेन सह यजमानस्सहते अभिभवति । कम् ? यं सीक्षते अभिभवितुमिच्छति ॥
इति द्वितीयस्य द्वितीये तृतीयोनुवाकः.
For Private And Personal Use Only