________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
322
'तैत्तिरीयसंहिता.
का. २. प्र. १.
ANNA
ज्मा वसहा ममत्तु वातौ अपां वृघण्वान् । शिशीतमिन्द्रापर्वता युवं
नस्तन्नो विश्वै वरिवस्यन्तु दे॒वाः । रे । ममर्नु । वातः । अपाम् । वृषण्वानिति वृषण्ण-वान् । शिशीतम् । इन्द्रापर्वतेतीन्द्रा-पर्वता। युवम् । नः । तत् । नः । विश्व । वरिवस्यन्तु ।
नः अस्मदर्थं अस्मान्वा अभिमतप्रदानेन तर्पयतु । परिज्मा परितस्सर्वतः भक्षयिता । 'श्वन्नुक्षन्' इत्यादिना जनेः कनिन्प्रत्ययो निपात्यते । अनेर्वा निनातेर्वा अग्निरुच्यते । वसीं अग्निहोत्रशरणाभिमुखस्थानार्हा वसनारे । नाशब्दो लुप्यते, दृषोदरादिः, 'सुपां सुलुक्' इति सोराकारः । यहा-वसितॄणां छादयितृणां काष्ठादीनां हन्ता । छान्दसो रेफोपजनः । वस्तेः पचाद्यचि हन्तेः विप् । कश्चिदाह-वासरस्य हन्ता गमयिता वसर्हा । वर्णविकारलोपौ छान्दसौ । आदित्य उच्यते । वातो वायुश्च ममत्तु । अपां वृषा वर्षिता पर्जन्यः तद्वान् तत्सहितो वातः । अनो नुट् । हे इन्द्रापर्वता इन्द्रापर्वतौ । पर्वतस्संवत्सर इत्येके । युवामपि नोस्मान् शिशीतं तनू कुरुतं निर्मलीकुरुतम् । श्यतेः 'बहुलं छन्दसि' इति शपनुः, ईत्वं च । तत्तस्माद्विश्वेपि देवाः अन्येपि जनाः नः अस्मभ्यं वरिवस्यन्तु अन्नं दातुमिच्छन्तु ; वरिवोन्नम् । 'छन्दसि परेच्छायाम्' इति क्यच ॥
For Private And Personal Use Only