________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
320
तैत्तिरीयसंहिता.
का. २. प्र. १.
मरुतो यह वो दिवो या वाम।भ'मरुतः । यत् । हु । वः । दिवः । 'या। वः । शर्मं । भरैषु । इन्द्रम् । सुहवमिति सु-हहवन्ते आह्वायन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ' यत्सर्वेपामर्धमिन्द्रः प्रति' इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकान. स्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रने गोष्ठे आभज स्थापयेति ॥ __ अथ मारुतस्य सप्तकपालस्य पुरोनुवाक्या-मरुतो यह व इति गायत्री ॥ इयमपि 'वैश्वानरो नः। इत्यत्र व्याख्याता । इह तु प्रतीकग्रहणम् । हे मरुतः वः युष्मान् सुम्नायन्तः मुखमिच्छन्तो वयं यद्यस्मादिवो द्युलोकात् हवामहे आह्वयामः तस्मादस्मान् शीघ्रमुपगन्तन उपगच्छतेति ॥ _ 'तत्रैव याज्या-या वश्शर्मेति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता। । प्रतीकग्रहणमिहास्याः । हे मरुतः युप्माकं यानियानि शर्माणि सुखानि शशमानाय युप्मान् वृषणः वर्षितारः कामानामस्मभ्यं सुवीरं शोभनपुत्रादिकं रयिं धनं धत्तेति ॥
ऐन्द्रमेकादशकपालं निर्व पेद्वैश्वदेवं द्वादशकपालं ग्रामकामः इत्यस्याः पुरोनुवाक्या-भरेविन्द्रमिति जगती ॥ भरेषु सङ्ग्रामेषु इन्द्रं सुहवं स्वाहानं आह्वानप्रयोजनस्य शीघ्रं कर्तारम् । प्रत्ययोत्पत्तेः प्रागेव 'बहुलं छन्दसि' इति सम्प्रसारणे अकारान्तल
*सं. ५-४-८.
सं. १-५-११.15--16
सं. २-२-११.
For Private And Personal Use Only