________________
Shri Mahavir Jain Aradhana Kendra
18
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
परोक्षं वा अन्ये दे॒वा इ॒ज्यन्ते॑ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य एव दे॒वाः पुरोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहार्य॑माहर॑त्ये॒ते वै दे॒वाः प्रत्यक्षं यद्ब्रा॑ह्म॒णास्ताने॒व तेन॑ प्रीणात्यथो॒
I
'प॒रोश॒मति॑ परः - अक्ष॑म् । वै । अ॒न्ये । दे॒वाः । इ॒ज्यन्ते॑ । प्र॒त्यक्षमिति प्रति-अक्ष॑म् । अ॒न्ये । यत् । यज॑ते । ये । ए॒व । दे॒वाः । प॒रोक्ष॒मति॑ परः -: अक्ष॑म् । इ॒ज्यन्ते॑ । तान् । ए॒व । तत् । य॒ज॒त । यत् । अ॒न्वा॒हो॒र्य॑मित्य॑नु॒ - आ॒र्य॑म् । आ॒र॒तीत्या॑ - हर॑ति । ए॒ते । वै । दे॒वाः । प्र॒त्यक्ष॒मिति॑ प्रतिअक्ष॑म् । यत् । ब्र॒ह्म॒णाः । तान् । ए॒व । तेन॑ । प्रीणाति॒ । अथो॒ इति॑ । दक्षि॑णा । ए॒व । अ॒स्य॒ ।
For Private And Personal Use Only
+
'अथान्वाहार्यं विधास्यन्नाह - परोक्षं वा इत्यादि ॥ अक्ष्णः परस्तात्परोक्षम् । 'परोक्षे लिट् ' इति निपातनाद्रूपसिद्धिः । अक्षमक्षं प्रति प्रत्यक्षम्, यथार्थेऽव्ययीभावः । उभयत्रापि 'कूलतीरतूल' इत्यादनी उत्तरपदाद्युदात्तत्वम्, 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्भिक्तिर्न निहन्यते । यद्यजते इत्यादि । यागेन परोक्षं यष्टव्यान् यजते । प्रत्यक्षयष्टव्यानन्वाहार्याहरणेन प्रीणयति । एते वै देवाः प्रत्यक्षमिति । वर्तन्त इति शेषः । अथो अपि च दक्षिणैवास्य याग