________________
Shri Mahavir Jain Aradhana Kendra
252
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
गर्भं इन्द्रि॒यमे॒वास्मि॑न्दधति सार - स्व॒तों मे॒षीमा लभेत॒ य ई॑श्व॒रो वा॒चो वदि॑ति॒स्सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भागधेये॒नोप॑ धावति॒ सैवास्मन्न् ॥ १२ ॥ वाच॑ दधाति प्रवदि॒ता वाचो भ॑व॒त्य
[का. २. प्र. १.
1
गर्भः । इन्द्रि॒यम् । ए॒व । अ॒स्मि॒न् । द॒धाति॒ । 'सारस्वतीम् । मेषीम् । एति॑ । लभेत् । यः । ई॑श्व॒रः । वा॒चः । वदि॑तोः । सन्न् । वाच॑म् । न । वत् । वाक् । वै । सर॑स्वती । सर॑स्वतीम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ - ति॒ । सा । ए॒व । अ॒स्मि॒िन्न् ॥ १२ ॥ वाच॑म् । धाति॒ । प्र॒व॒दि॒तेति॑ प्रव॒दि॒ता । वाचः । भव॒ति॒ ।
1 I
I
I
संवत्सरे । यहा - संवत्सरसमाप्तेः प्राक् । गर्भिणयः । वर्णव्यत्ययेन जसि ह्रस्वत्वम् ॥
For Private And Personal Use Only
"मेषीमिति ॥ ' जातेरस्त्रीविषयात् ' इति ङीष् । य ईश्वर इत्यादि । वाचो वदितोः तां वाचं वदितुमीश्वरस्सम्पन्नसामग्रीकोपि वाचं न वदेत् वादित्वं न लभेत । ' ईश्वरे तोसुन्कसुनौ ' इति तोसुन् । प्रवदिता प्रवक्ता । यद्वा वाक्प्रसरणसमर्थोपि विरोधाद्वाचं वदितुं बिभेति, स यजेत । अपन्नदती अविपन्नदन्ता ।