________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
217
मे सप्त रत्ना दाना प्रति वां जिह्वा घृतमा चरण्येत् । अनाविष्णू महि
धाम प्रियं वो वीथो घृतस्य गुह्या रत्ना । दाना । प्रतीति । वाम् । जिह्वा । घृतम् । एति । चरण्यत् । अग्नाविष्णू इत्यना-विष्णू । महि । धाम । प्रियम् । वाम् । वीथः । घृतस्य ।
शसो लुक् । आज्यसान्नाय्यपशुपुरोडाशादिगुह्यनामवन्ति घृतसम्बन्धीनि वस्तून्यश्नीतम् । वी गत्यादिषु । पादादित्वान्न निहन्यते । प्रति प्रत्येकं वां युवयोः दमेदमे गृहेगृहे सर्वेषु यज्ञगृहेषु । 'अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । सप्त सृप्तानि सप्तसङ्ग्यानि वा अर्चीषि रत्ना रत्नानि रमणीयानि । 'शेश्छन्दसि' इति लोपः । दधाना । दधानौ सन्तौ । 'सुपां सुलुक् ' इति द्विवचनस्याकारः । दधानौ वीतमिति । किञ्च-प्रति प्रत्येकं वां युवयोः जिह्वा घृतमाचरण्येत् आभिमुख्येन प्राप्नोतु भक्षयत्वित्यर्थः । एतद्वां महिमेति पूर्वेणान्वीयते । चरण गतौ, कण्ड्वादिः ॥
तत्रैव याज्या-अनाविष्णू इति त्रिष्टुप् ॥ हे अनाविष्णू वां युवयोः धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियमिष्टं युवयोः । किञ्च-वीथो घृतस्य गुह्या गुह्यानि स्वरूपाणि चरुपुरोडाशरूपाणि । पूर्ववच्छेर्लोपः । जुषाणा जुषमाणौ प्रीय. माणौ (अग्नीयः) [शपश्श्लुः । पूर्ववदाकारः । दमेदमे । गतम् । मुष्टुतीश्शोभनस्तुतिकाः गिरः वावृधाना वावृधानौ वर्धयन्तौ दधानौ । यहा-~-सुष्टुतीः क्रिया वर्धयन्तौ । ऋत्विगादिना क्विन् । प्रव
2n
For Private And Personal Use Only