________________
Shri Mahavir Jain Aradhana Kendra
अनु. २१.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अति॑द्रुतः । इन्द्र॑स्य॒ यु॒ज्य॒स्सखा॑ । कु॒विद॒ङ्ग यव॑मन्त॒यव॑ चि॒द्यथा॒
SEX
213
I
पू॒तः । प॒वित्रे॑ण । प्र॒त्यङ् । सोम॑ः । अति॑द्रुत॒ इत्यति॑–द्रुत॒ः । इन्द्र॑स्य । यु॒ज्य॑ः । सखा॑ । 'कुवित् । अ॒ङ्ग । यव॑मन्त॒ इति॒ यत्र॑ म॒न्त॒ः । यव॑म् । ।
1
For Private And Personal Use Only
त्र्या च ॥ पवित्रेणानेन पूतस्सोमः इन्द्रस्य युज्यः सखा । युजि साधुर्युज्यः युक्तस्सखा । ऐन्द्रान्नवायवादिषु सहपानभोजनत्वात्सोमविशेषणमिदम् । स सोमो वायुः वायुसदृशः वायुवत्स्वस्थानचलितः प्रत्यङ्गतिकूलो घनः । अतिद्रुतः अधस्ताद्वतः अतिगतो वा । यद्वा -- वायुरिति । 'सुपां सुलुक्' इति तृतीयायास्स्वादेशः । वायुना प्रत्यङ्गतिद्रुतः अतीतः तमेतेन पवनेन स्वस्थानस्थं करोमीति शेषः । एवमनेन कर्मणा स्वस्थानस्थित एव भवतीति । अपरा योजना - वायुश्शरीरस्थः प्राणः पवित्रेण पावनेन सोमेन पीतेन पूतः प्रथमं शोधितः इन्द्रस्य युज्यस्सखा स प्रत्यङ् प्रतीपमतिद्रुतः स्वस्थानात्पीडितोतिक्रम्य निर्गतः सोमश्च सोतिद्रुतः । यद्वापूर्ववत्तृतीयायास्स्वादेशः । अनेन सोमेन अनेन सोमेन स वायुरतिद्रुतः । यद्वा — सोमश्च वायुश्चेति तदुभयमनेन कर्मणा स्वस्थानस्थं भवति ॥
" सुराग्रहान्गृह्णाति — कुविदङ्गेति त्रिष्टुभा ॥ कुविदिति बहुप्रसिद्धानुवादे । अङ्गेत्यप्रातिलोम्ये बहुप्रसिद्धमेतत् सर्वानुकूलमिति द्योतयतः । किम्पुनस्तत् ? आह— यवमन्तः बहुयवाः । यवग्रहणेन यवितव्या यवमुद्गत्रीहिगोधूमादयो धान्यविशेषा गृह्यन्ते । भूम्नि मतुप् । 'यथा चित्' इति द्वे अप्युपमानार्थे, एकाने