SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता. 185 तमसि यमेष्टमसि । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तयमेष्टमिति यम-इष्टम् । असि । "प्रजापत इति प्रजा-पते । न । त्वत् । एतानि । अन्यः। विश्वा । जातानि । परीति । ता । बभूव । यत्कामा इति यत्-कामाः। ते । जुहुमः । तत् । नः । कर्मणि यदुपादीयते शिवो रुद्रः त्र्यम्बकः कृत्तिवासा विरूपाक्ष इत्यादि तव नाम परं प्रशस्तं तस्मै इदं हुतं तदिदमिति त्वमेवासि । यभेष्टं यद्यमेनापीष्टं पूजितं तच्छुत्वा मृत्युरपि बिभेति, तेन च मनसा तत्पूजितमिति भावः । तदिदं त्वमेवासि । यजतेनिष्ठा, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्तव नाम्ने इदमुदकाख्यं हविर्नुहोमीति शेषः । यद्वा--लिङर्थे आशिषि लोट् , पुरुषव्यत्ययः । तस्मादिदं हुतमसि हुतं भूयादित्यर्थः यमेष्टं चारित्वति ॥ ___1°युवराजस्य प्रतिहितस्य गृहे जुहोति-प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यहा--त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः परिबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति; अतो यत्कामा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy