________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
184
तैत्तिरीयसंहिता.
[का. १.प्र...
www
नावश्चरन्ति स्वसिर्च इयानाः ।
रुद्र यते कयी परं नाम तस्मै हुस्वसिच इति स्व-सिचः । इयानाः । रुद्र । यत् । ते।यि । परम् । नाम । तस्मै । हुतम् । अस।
सुषिराणि चानुसञ्चरन्तीरनुक्रमेण सञ्चरन्त्यः । अहिं बुध्नियं वानुप्राप्य सञ्चरन्तीस्ताः । पर्वतस्य पर्ववतः । 'पर्वमरुद्यस्तः । इति मत्वर्थीयस्तः । वृषभस्य प्रधानस्य वर्षितुर्वा यजमानस्य पृष्ठे देहस्योपरि नावः नाव्या इवापश्चरन्ति प्रभूताः प्रवर्तन्ते स्वसिचः स्वयमेव सर्वमङ्गं सिञ्चन्त्यः इयानाः सर्वमङ्गं व्यामुवन्त्यः । लिटः कानजादेशः । यद्वा–समाववृत्रन् संहत्य समन्तात् वर्तन्ताम् । अधरागुपरिष्टाच्च सर्वास्वपि दिक्षु अहिं मेघं बुनियमन्तरिक्ष चानुसञ्चरन्त्यः मेघमनुप्राप्यान्तरिक्षे वर्तमानाः । वर्षकाले पर्वतस्य पर्ववतो वृषभस्य वर्षितुर्मेघस्य पृष्ठे नाव्या आप इव प्रभूतास्सञ्चरन्ति ओषधिनिष्पत्तये । स्वसिचस्स्वयमेव विश्वं सिञ्चन्त्यः इयाना दिगन्तं व्याप्नुवन्त्यः इति । नौभिः कार्याभिः कारणभूता आपो लक्ष्यन्ते ॥
आनीधे प्ररेकं जुहोतिरुद्र यत्त इति ॥ हे रुद्र यते तव रुद्रेत्यादिकं नामधेयं परमुत्कृष्टं ऋयि क्रीणात्यात्मसात्करोति विश्वमिति ऋयि । छान्दस इप्रत्ययः, छान्दसं सांहितिकं दीर्घत्वम् । करोत्यर्थे वा क्रीणातिः । अन्य आह-रोतेः कर्मणि छान्दसः केन्प्रत्ययः । के इति कर्मनाम; सप्तम्येकवचने अयादेशः, 'सावेकाचः' इति व्यत्ययेन न प्रवर्तते । क्रयि कर्मणि
For Private And Personal Use Only