________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
163
तामोजस्स्थ सूर्यवर्चसस्स्थ सूर्य
त्वचसस्स्थ मान्दस्स्थि वाशास्स्थ वृष-सेनः । आस । व्रजक्षित इति व्रज-क्षितः । स्थ । मरुताम् । ओजः । स्थ । 'सूर्यवर्चस इति सूर्य-वर्चसः । स्थ । सूर्यंत्वचस इति सूर्य-त्वचसः । स्थ । 'मान्दाः । स्थ । “वाशाः । स्थ ।
___ अथ कूप्या गृह्णाति-व्रजक्षितस्स्थ इति ॥ बजे वेष्टितेवकाशे क्षियन्ति निवसन्तीति व्रजक्षितः । क्षि निवासगत्योः ॥
प्रतीपोदकमावर्तनलं गृह्णाति-मरुतामोजस्स्थेति ॥ मरुतां वायूनामोजः बलं स्थ ; तेन निवृत्तत्वात् ॥ _ 'आदित्ये दृश्यमाने यदा वर्षति तन्जलं गृह्णाति-सूर्यवर्चसस्स्थेति ॥ सूर्य वर्चयन्ति भृशं दीपयन्ति । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वञ्च' इत्यसुन् । सातपेहि वर्षे भृशमादित्यो दीप्यते । बहुव्रीहिर्वा सूर्यस्येव वक़ येषामिति । सूर्यरश्मिसंयोगेन वर्चस्वित्वात् ॥
यत्र कुत्र चित्प्रसन्नं जलं गृह्णाति-सूर्यत्वचसस्स्थेति ॥ त्वच संवरणे, सूर्य त्वचन्ति संवृण्वन्ति । पूर्ववदसुन् । यामु खलु निर्मला. स्वप्सु रूपाणि परिदृश्यन्ते ताः खलु सर्वरूपप्रकाशनं सूर्यमपि स्वमहिम्ना संवृण्वन्ति ॥
स्थावराणां गृह्णाति, द्वादीर्वा—मान्दास्स्थेति ॥ मन्दस्वभावाः । मां दत्तदेवेभ्य इति द्वादं कुर्वाणाः, अशोप्या इत्यन्ये ॥ 1 अवश्यायोदकं गृह्णाति-वाशास्थेति ॥ वाशा वश्याः नीहारो
For Private And Personal Use Only