SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भट्टभास्करभाष्योपेता. सर्वेण वै यज्ञेनं देवास्तुंवर्ग लोकमायन्पाकय॒ज्ञेन मनुरश्राम्यत्सेड़ा मनुमुपावर्तत तां देवासुरा व्यह्वयन्त प्रतीची देवाः परांचीमसुरास्सा देवा नुपावर्तत पशवो वै तद्देवानवृणत वसृजतीत्युप-अवसृजति । सर्वेण । वै । यज्ञेन । दे॒वाः । सुवर्गमित सुवः-गम् । लोकम् । आयन् । पाकयज्ञेनेत पाक-यज्ञेन । मर्नुः । अश्राम्यत् । सा। इडा । मनुम् । उपावर्ततेत्युप-आवर्तत । ताम् । देवासुरा इति देव-असुराः । वीति । अह्वयन्त । प्रतीचीम् । देवाः । पराचीम् । असुराः। सा । देवान् । उपावर्ततेत्युप-आवर्तत । पशवः । वै । तत् । देवान् । अवृणत । पशवः। असुरान् । सर्वेणेत्यादि ॥ अश्राम्यत् पाकयज्ञमात्रानुष्ठानतत्परोभवत् । ततस्सेडा मनुमुपावर्तत । तस्मादियं मानवीत्युच्यत इत्यभिप्रायः । तामित्यादि । व्यद्वयन्त विविधमाह्वयन् । पूर्ववदात्मनेपदम् । प्रतीची स्वात्माभिमुखावस्थानाम्, पदाभ्यासात् । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । पराची पराङ्गखावस्थानाम्, पदाभ्यासाभावात् । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वं च । केचिदाहुः-इडोपहूतेति प्राची, उपहूतेडेति पराची । पशवो वा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy