________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
मेकादशकपालमृषभो वही दक्षिणायमष्टाकपालमैन्द्रं दधृय॑षभो वही दक्षिणैन्द्राग्नं द्वादशकपालं वै
श्वदेवं चरुं प्रथमजो वत्सो दक्षिणा ऋषभः । वही । दक्षिणा । "आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । ऐन्द्रम् । दधि । ऋषभः । वही। दक्षिणा। "ऐन्द्रामामित्यन्द्र-अग्नम्। द्वादशकपालमिति द्वादश-कपालम् । वैश्वदेवमिति वैश्व-देवम् । चरुम् । प्रथमज इति प्रथम-जः। वत्सः । दक्षिणा । सौम्यम् । श्यामाकम् । चरुम् । खेलगतिर्वा । अत्रायं पञ्चम ऐन्द्रो विधीयते, अनुब्राह्मणे तु ऐन्द्रानः, अत्र कथं भाव्यमिति भाव्यं; विकल्पो वा तुल्यबलत्वात् ।। ___10वो भूते आग्नेयमष्टाकपालं निर्वपति, ऐन्द्रं च दधि-द्विहविष्कोयं यागः । 'अग्निः यज्ञमुखम् '* इत्यादि ब्राह्मणम् । ऋषभो वही दक्षिणा ॥ ___11वो भूते ऐन्द्रानं द्वादशकपालं निर्वपति, वैश्वदेवं चरुं निर्वपति---'देवा वा ओषधीष्वानिमयुः' इत्यादि ब्राह्मणम् । अत्र प्रथमजः प्रथमनातो वत्सो दक्षिणा । अस्मिन् यागे सौम्यं श्यामाकं चरुं निर्वपति----'सोमो वा अकृष्टपच्यस्य राजा'* इत्यादि ब्राह्मणम् । श्यामाकशब्दाद्विकारे 'कोपधाच्च' इत्यम् । तत्र वासो दक्षिणा । 'सौम्यं हि देवतया वासः '* । त्रिहविष्कोयं यागः।
*ब्रा, १.६.१.
For Private And Personal Use Only