________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता.
101
कृणोतु सुवीर्यस्य ॥५०॥ पतयस्स्याम । तस्य वय सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववार इन्द्रौ अ॒स्मे सु-वीर्यस्य ॥ ५० ॥ पतयः। स्याम । “तस्य । वयम् । सुमताविति सु-मतौ । यज्ञियस्य । अपीति । भद्रे । सौमनसे । स्याम । सः। सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । ‘धिन्विकृण्व्योरच' इत्युप्रत्ययः । सुवीर्यस्य सुसारस्य सर्वस्य वयं पतयस्स्याम भूयास्म । 'वीरवी? च' इत्युत्तरपदाादात्तत्वम् ॥ ___ 12तत्रैव याज्या-तस्य वयमिति त्रिष्टुप् ॥ तस्येन्द्रस्य यज्ञियस्य यज्ञार्हस्य यज्ञसम्पादनार्हस्य । 'यज्ञविंग्भ्यां घखौ' । तस्य सुमतौ कल्याण्यां मतौ । 'मन्क्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् । शोभनायां वा बुद्धौ । ' नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तत्र विषयत्वेन वयं स्याम, तस्येन्द्रस्य भद्रे भजनीये कल्याणे सौमनसे सौमनस्ये च स्याम । एतदुक्तं भवतियागसम्पादिनः तस्य सुमतौ स्याम यथा सर्वकालं यागकारिणी भवाम । अपि च तस्य भद्रे सौमनसे सौमनस्ये च फलं स्याम यथा सर्वकालाभिमतभानः सर्वकालं मोदेमहीति । छान्दसोण्प्रत्ययः । इन्द्रस्सुत्रामा सुष्टु त्राता स्ववान् धनवान् अस्मा
For Private And Personal Use Only