________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100
'तैत्तिरीयसंहिता.
[का. १. प्र. ७.
मानाय शं योः । इन्द्रस्सुत्रामा स्ववा अवौभिस्सुमडीको भवतु
विश्ववेदाः । बाधता द्वेषो अभयं अर्थ । भव । यजमानाय । शम् । योः। "इन्द्रः। सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । अवोभिरित्यवः-भिः । सुमृडीक इति सु-मृडीकः । भवतु । विश्ववेदा इति विश्व-वेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सुवीर्यस्यति
शमयिता भयानां च यावयिता । शाम्यतेयॊ तेश्च विच् । 'निपातस्य च ' इति संहितायामथशब्दस्य दीर्घत्वम् ॥
11' इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपेदपरुद्धो वा. परुद्धयमानो वा'* इत्यस्य पुरोनुवाक्या-इन्द्रस्सुत्रामेति त्रिष्टुप् ॥ इन्द्रस्सुत्रामा सुष्टु त्राता सर्वेषाम् । तेनैव मनिन् । स्ववान् धनवान् । ' दीर्घादटि समानपादे' इति रुत्वम् । अवोभिः रक्षणैः सुमृडीकः सुसुखः सुष्टु सुखयितास्माकं भवतु । ' मृडीकादयश्च' इति कन्, 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । विश्ववेदाः 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वञ्च । सर्वधनो वा । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम्, किञ्च-बाधतां नाशयतु द्वेषः द्वेष्ट्रन् । 'अन्येभ्योपि दृश्यते' इत्यमुनि वा जाताचेकवचनम् । अभयं चास्माकं कृणोतु ।
*सं. २-२-८.
For Private And Personal Use Only