________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपैता.
97
उक्थे प्रब्रवाम वयमिन्द्र स्तुवन्तः।
आ तू भर मारितत्परिष्ठाविद्मा हि त्वा वसुपतिं वर॑नाम् ।
इन्द्र यत्ते माहित दमस्त्य॒स्मभ्यं प्रेति । वाम । वयम् । इन्द्र । स्तुवन्तः। 'एति।तु । भर।माकिः। एतत् । परीति । स्थात् । विद्म । हि । त्वा । वसुपतिमिति वसु-पतिम् । वसूनाम् । इन्द्र । यत् । ते । माहिनम् । दम् ।
अस्ति । अस्मभ्यमित्य॒स्मभ्यम् । तत् । हर्यनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । ते तव उक्थे स्तोत्रे अस्मिन् स्तोत्रस्थानीये शस्ते प्रशस्ते दाशुषे दातुं यत्तव भूरि तदस्मभ्यं देहीति । यहा.-ईदृशे शस्ते उक्थे समाप्ते इदानीं यत्वां प्रब्रवाम तद्देहीति । ब्रूनो लोटि 'आडुत्तमस्य' इत्याडागमः । लेटि वा 'लेटोडाटौ' इत्याडागमः, 'छन्दस्युभयथा' इत्यार्धधातुकत्वात्विाभावः, सार्वधातुकत्वाद्वच्यादेशो न प्रवर्तते ॥
तत्रैव याज्या-आ तू भरेति तृतीयपादान्तम्, तूइति पादपूरणार्थम् । हे इन्द्र आभर ‘विद्मा हि त्वा वसुपतिम् ' इति वक्ष्यमाणत्वात् वस्विति गम्यते । पूर्ववद्भत्वम् । एतद्वसु माकिः परिष्ठात् परत्र मास्थात् अस्मास्वेव तिष्ठतु । यद्वा-अस्मभ्यमाहृतं वसु त्वया एतत्परिष्ठितं समाप्तं मा भूत् अनुपक्षीणमस्तु । माकिरिति माशब्दपर्यायो निपातः, 'गातिस्था' इति सिचो लुक् । कस्मादेवमुच्यसे? इति चेत् हि यस्मात्त्वां सर्वेषां वसूनां
For Private And Personal Use Only