________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
96
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
ग्वि चारीत् । मा नौ मीरा भरा दृद्धि तन्नः प्र दाशुषे दातवे भूरि
यत्ते । नव्य देष्णे शस्ते अस्मिन्त'मा । नः । मीः । एति । भर । दृद्धि । तत् । नः। प्रेति । दाशुषे । दातवे । भूरि । यत् । ते । नव्य । देष्णे । शस्ते । अस्मिन्न । ते । उक्थे ।
" इन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत दानकामा मे प्रजास्स्युः '* इत्यस्य पुरोनुवाक्या-मा न इति त्रिष्टुप् ॥ हे इन्द्र नोस्मान् मा मर्धीः कलहिनो मा कार्षीः । किन्तु ; नोस्मभ्यं आभर आहर । पूर्ववद्भत्वम् । 'द्वयचौतस्तिङः' इति संहितायां दीर्घत्वम् । आहृत्य च तदस्मभ्यं प्रदद्धि प्रदेहि । व्यत्ययेन एत्वाभ्यासलोपाभावः । तदित्युक्तमित्याह-यत्ते तव सम्बन्धि भूरि बहु तत्तु ' दातवे ' इति सन्निधेर्धनमिति गम्यते । प्रदातव इति वा समस्तमेव सम्बध्यते । दाशुषे पुरोडाशादीनि हवींषि दत्तवते यजमानाय 'दाश्वान् । इति निपात्यते । तस्मै दातवे दातुं दानार्थ मेव यत्त्वया कल्पितं प्रभूतं धनमस्मभ्यं प्रदेहीति । 'तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः । यस्मात्त्वां स्तुवन्तो वयं प्रबवाम प्रकर्षण ब्रूमः ; देहि नो देहि न इति, तस्मात्तदाहृत्य ते वयमपि दाश्वांस इति । कदा दातव इत्याह-व्ये अभिनवे देणे दानसमर्थे । औणादिके स्नप्रत्यये धातोरिकारान्तादेशः । यद्वा-देणे दात्रे तुभ्यम् । औणादिके कनिप्रत्यये धातोरेकारप्षुगागमश्च, उदात्त
*सं. २.२.८.
For Private And Personal Use Only