________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३.]
भट्टभास्करभाष्योपेता
151
परोवप मन्युना यदवा । सुकल्पमने तत्तव पुनस्त्वोद्दीपयामसि । यत्ते मन्युपरोप्तस्य पृथिवीम दध्व
से। आदित्या विश्वे तद्देवा वसवश्व अख्यत् । महिषः । सुवः । यत् । त्वा ॥ १० ॥ क्रुद्धः । परोवपेति परा-उवप । मन्युना । यत् । अवा । सुकल्पमिति सु-कल्पम् । अग्ने । तत् । तव । पुनः । त्वा । उदिति । दीपयामसि । यत् । ते । मन्युफ्रोप्तस्येति मन्यु-परोप्तस्य । पृथिवीम्।
द्वितीया-यवेत्यनुष्टुप् । तवेति तृतीयपादान्तः ॥ यत् येन कारणेन ऋडयभावेन क्रुद्धोहं त्वामपि परोवप परोप्तवान् उद्दासितवानस्मि । ‘णलुत्तमो वा ' इति णित्त्वाभावः । ' यद्वृत्तान्नित्यम् । इति निघाताभावे 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् , समासश्च । लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । मन्युना शोकेन परीतोहमवा दारियेण पाप्मना वा यत्वां परोवप विनाशितवान् हे अग्ने तदपि तव प्रसादात्सुकल्पं शोभनकृतिकमेव भवति । 'आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाचुदात्तत्वम् । 'युप्मद. स्मदोर्डसि' इति तवशब्द आद्युदात्तः । अतस्त्वां पूर्ववदेवोद्दीपयामसि उद्वपामः । 'इदन्तो मसि' ॥
अथ तृतीया-यत्त इत्यनुष्टुप् ॥ ते तव मन्युपरोप्तस्य मन्युना हेतुना मयोद्वासितस्य । ' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ।
For Private And Personal