________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता
75
नेदेष त्वदंप चेताँतै "यज्ञस्य पाथु उप समित५ स५ स्रावांगास्स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषर्दश्च ॥२३॥ देवा इमां वाचमुभि विश्व
इतरावुपसमस्यति-यज्ञस्येति ॥ यज्ञस्य साध्यतया सम्बन्धि यत्पाथः अन्नं तद्युवामप्युपसमितं उपसंप्राप्नुतम् । अचेतनानामपि यज्ञोपयुक्तानां फलसम्बन्धः प्रतिपादितो भवति । 'उदके युद्ध इत्यधिकृत्य 'अन्ने च' इति पातेरसुन् प्रत्ययः ॥
1 एतान्संत्रावणाभिघारयति-संस्त्रावभागा इति त्रिष्टुभा चतुप्पदया ॥ संत्राज्यत इति संस्त्रावः । कर्मणि घञ् , थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । संत्रावो जुहूपभृद्भयां सिच्यमान आज्यशेषो भागो येषां तादृशाः स्थ भवत । लिङर्थे लेट् । बहुव्रीही पूर्वपदप्रकृतिस्वरत्वम् । 'वसवो वै रुद्रा आदित्यास्सँस्रावभागाः '* इत्यादि ब्राह्मणम् । कीदृशाः पुनस्त इत्याहइषा इच्छावन्तः भागान् लब्धुम् । इषेः क्विबन्तादर्शआदित्वादच्प्रत्ययः । बृहन्तः महान्तः सर्वैराराधनीयाः । 'प्रस्तरेष्ठा बर्हिषदश्च देवाः' इति द्वितीयः पादः । ये प्रस्तरेष्ठाः । प्रस्तरे तिष्ठन्तीति 'स्थः कच' इति क्विप्प्रत्ययः, 'तत्पुरुषे कृति बहुलम् ' इत्यलुक् , सुषामादित्वात् षत्वम् , कृदुत्तरपद. प्रकृतिस्वरत्वम् । ये च बर्हिषदः । बर्हिषि सीदन्तीति ‘सत्सूद्विष' इत्यादिना विप , टपोदरादित्वात्सकारलोपः, पूर्ववत् षत्वस्वरौ । ते विश्वेपि देवा देवनादिगुणयुक्ता यूयं, इमामस्मदीयां त्वद्विषयां स्तोत्ररूपां वाचं अभिगृणन्तः आभिमुख्येन
*बा. ३-३-९,
For Private And Personal Use Only