SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 तैत्तिरीयसंहिता का. १. प्र. १. ररुः पृथिव्यै 'व्रजङ्गच्छ गोस्थानं 'वर्षतु तेद्यौ बधान देव सवितः परमस्या परावर्ति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौ गपंहतोररुः पृथिव्यै देवयजन्यै "ब्रजम् ॥ १४॥ गच्छ गोस्थानं ___ हरति-व्रजमिति ॥ वजन्त्यस्मिन्निति व्रजः । 'गोचरसंचर' इत्यादौ घप्रत्ययान्तो निपातितः । यस्मिन्प्रदेशे पांसवस्सङ्घीभूता उत्करभावमापद्यन्ते, तं देशं गच्छति । कीदृशं?गोस्थानम् गोशब्दस्य प्रत्याश्रावणलक्षणस्य सम्बन्धि स्थानम् । 'छन्दांसि वै व्रजो गोस्थानः '* इति ब्राह्मणम् । छन्दस्त्वेन तस्य स्तुतिः । तान्यपि हि गवां शब्दानां स्थानानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्थानशब्दो लित्स्वरेणाद्युदात्तः । ननु 'मक्तिन् व्याख्यानशयन' इत्यादिना कदुत्तरपदान्तोदात्तत्वेन भाव्यम् । तर्हि 'परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वं भविष्यति ॥ 'वेदि प्रत्यवेक्षते--वर्षत्विति ॥ ते तव स्फ्येन प्रहृतायाश्शान्त्यर्थं यौवर्षतु दिविष्ठपर्जन्यद्वारेण ॥ _____-16निवपति-बधानेति द्विपदया गायत्र्या. यजुरन्तया ।। हे देव सवितः सर्वस्य प्रेरक । परमस्यां परावति सुदूरेपि देशे स्थितं जनम् । ' उपसर्गाच्छन्दसि धात्वर्थे ' इतिं वतिः । छान्दसचाडागमः । शतेन पाशैः बहुभिः पाशैः तं बधान - - *बा.३.२.९ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy