________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता .
का. १. प्र. १.
.प्र.१.
'धृष्टिरसि ब्रह्म यच्छा पग्नेिग्निमामादै जहि 'निष्कव्याद सेधा ऽऽदेवयज वह निर्दग्ध रक्षो
धृष्टिमादत्ते-धृष्टिरिति ॥ धृष्टिरुपवेषः । धृष्टिर्धर्षणे समसि शत्रूणाम् । अतो ब्रह्म हविर्लक्षणमन्नं यच्छ देहि । किं हि नाम त्वया न शक्यते कर्तुमिति ॥
गार्हपत्यमभिमन्त्रयते-अपेति ॥ हे अने गार्हपत्य यस्त्वाय आमात् अग्निः तं जहि नाशय । आमात् अपक्काशी हविषो विनाशकः । 'अदोनन्ने' इति विद्वत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
अङ्गारं निरस्यति-निरिति ॥ ऋव्यादं अग्निं निस्सेध निकृष्य बहिरपनय । षिधू गत्यां , भौवादिकः । आममांसभक्षकः क्रव्यात् चिताग्निः । 'क्रव्ये च ' इति विसत्ययः , पूर्वपदप्रकृतिस्वरत्वम् ॥
... 'अङ्गारमन्यमावर्तयति-एति ॥ देवान् यजतीति देवयट , हविषां सम्यक्सम्पादकः । 'अन्येभ्योपि दृश्यते' इति क्विप्प्रत्ययः । स एव प्रकृतिस्वरः । देवयजं अग्निम् आवह आनय । ‘य एवामात्क्रव्यात् इत्यादि ब्राह्मणम् ॥
अङ्गारमधिवर्तयति-निर्दग्धमिति ॥ प्रत्युष्टादिना व्याख्यातम् । 'अग्निवत्युपदधाति 'इत्यादि ब्राह्मणम् ॥
*क-विच्प्र.
बा.३-२-७.
सं.१.१.२.२
For Private And Personal Use Only