________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८. ]
www. kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
•
स्स्वद॑तैन॒
सन्ते॑ प्रा॒णो वा॒युना॑
1
1
दे॒व॒म् । ह॒व्यम् । आप॑ः । दे॒वीः । स्वद॑त । ए॒न॒म् । 'समिति॑ । ते॒ । प्रा॒ण इति॑ प्र - अ॒नः । वा॒युना॑ ।
।
।
311
' विभाषितं विशेषवचने बहुवचनम् ' इति तस्याविद्यमानत्वनिषेधादेवीरिति निहन्यते । ' आमन्त्रितं पूर्वमविद्यमानवत् ' इति तयोर्द्वयोरप्यविद्यमानत्वेन पादादिभूतं स्वदतेति तिङन्तं न निहन्यते । एनादेशोनुदात्त एव । हव्यं पशुर्विशेष्यते—सदेवं देवसहितं देवाधिष्ठितम् । ' तेन सहेति तुल्ययोगे ' इति बहुव्रीहिः, ' वोपसर्जनस्य' इति सभावः । सदेवत्वस्यानाशासनीयत्वात् तेन ' प्रकृत्याशिष्यगोवत्सहल ' इति प्रकृतिभावाभावः । पुनश्च विशेप्यते — हव्यं हविर्भूतम् । जुहोतेः ' अचो यत् ' इति यत्, उञ्छादिर्द्रष्टव्यः । यद्वा — हवमहतीति हव्यम् ।' छन्दसि च इति यत्प्रत्ययः ॥
?
'जुह्वा पशुं समनक्ति ललाटे ककुदि श्रोण्यां च - सन्ते प्राण इति पुरउष्णिहा त्रिपदया द्वादशवस्वष्टाक्षरया ॥ तत्र ललाटे समनक्ति — सन्ते प्राणो वायुना गच्छतामिति । हे पशो त्वदीयः प्राणो वायुः वायुना बहिष्ठेन भूतात्मना सह सङ्गच्छतामेकीभवतु । ' समोगमृच्छि' इत्यात्मनेपदम् । ' वायुदेवत्यो वै ' इत्यादि ब्राह्मणम् ॥
*सं. ६-३-७.
For Private And Personal Use Only