________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
296
तैत्तिरीयसंहिता
[का. 1. प्र. ३.
M
अत्राह तदुरुगायस्य विष्णोः परअत्र । आहे । तत् । उरुगायस्येत्युरु-गायस्य । विष्णोः । परमम् । पदम् । अवोत । भाति ।
रश्मयो विसर्पन्तीति । यद्वा-यत्र गावो गन्तारो जनाः । 'गमे?' इति डोप्रत्ययः । भूरिशृङ्गाः महादीप्तयो भवन्तीति । दीप्तिनामसु हि शृङ्गाणीत्यध्यायान्ते* पव्यते । पुनश्च विशेष्यन्तेअयासः अनपायाः अप्रच्युताः । यातेरसुनि याः, नञ्बहुव्रीहौ 'नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । धामानि पुनर्विशेष्यन्तेअत्राह अत्रैव । अहेत्यवधारणे । येष्वेव धामसु उरुगायस्य उरुभिर्महात्मभिर्गीयत इत्युरुगायः । गायतेः कर्मणि घञ् , थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । भूरेः महतो महाबलस्य विष्णोः विश्वं व्यामुवतः । 'विषेः किञ्च ' इति नुप्रत्ययः, तत्र हि निदिति वर्तते । यस्त्वं महाबलो महात्मभिस्स्तूयमानो विश्वं व्यानुवन्नभूः 'विचक्रमाणस्त्रेधोरुगायः इति मन्त्रप्रसिद्धः तस्य तव तत्तादृशविक्रमकृत् परममुत्तमं पदं तदप्येष्वेव धामसु अवभाति दीप्यते, तस्मात्तानि धामानि गन्तुमुश्म इति । एवं प्रत्यक्षकतोयं मन्त्रः । द्वितीयस्तेशब्दोस्मिन्पक्षे युष्मदादेशः। यहा-परोक्षकत एवायम् । ते ते इति वीप्सा । तानि तानि धामानि गन्तुमुश्मः । 'नित्यवीप्सयोः' इति शेप्रत्ययान्तस्य द्विर्वचनम्, 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । स्पष्टमन्यत् ॥
-
*निरु. १-१७.
सिं. १-२-१३,
क-पदं स्वरूपं.
For Private And Personal Use Only