________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृ ती यः प्रकीर्णकव्यवहारः.
प्रणुतानन्तगुणौघं प्रणिपत्य जिनेश्वरं महावीरम् । प्रणतजगत्रयवरदं प्रकीर्णक गणितमभिधास्ये ॥ १ ॥ 'विध्वस्तदुर्नयध्वान्तः सिद्धः स्याद्वादशासनः । विद्यानन्दो जिनो जीयाद्वादीन्द्रो मुनिपुङ्गवः ॥ २ ॥ इतः परं प्रकीर्णकं तृतीयव्यवहारमुदाहरिष्यामः--
भागश्शेषो मूलकं शेषमूलं स्यातां जाती द्वे द्विरप्रांशमूले । भागाभ्यासोऽनोंऽशवर्गोऽथ मूल
मिश्रं तस्मादिन्नदृश्यं दशामूः ॥ ३ ॥ तत्र भागजातिशेषजात्योरसूत्रम् --- भागोनरूपभक्तं दृश्यं फलमत्र भागजातिविधौ । अंशोनितरूपाहतिहतमग्रं शेषजातिविधौ ।। ४ ।।
भागजातावुद्देशकः । दृष्टोऽष्टमं पृथिव्यां सम्भस्य त्र्यंशको मया तोये । पादांशः शैवाले कः स्तम्भः सप्त हस्ताः रखे ॥ ५ ॥ षड्डागः पाटलीषु भ्रमरवरततेस्तत्रिभागः कदम्बे पादश्रूतद्रुमेषु प्रदलितकुसुमे चम्पके पञ्चमांशः । प्रोत्फुल्लाम्भोजषण्डे रविकरदलिते त्रिंशदशोऽभिरेमे तत्रैको मत्तभृङ्गो भ्रमति नभसि का तस्य बृन्दस्य सङ्ख्या ॥६॥
Band M omit this stanza.
For Private and Personal Use Only