________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिकर्मव्यवहारः
विसदृशादिसदृशगच्छसमंधनानामुत्तरानयनसूत्रम्-अधिकमुखस्यैकचयश्चाधिकमुखशेषमुखविशेषो भक्तःः । विगतैकपदार्थेन सरूपश्च चया भवन्ति शेषमुखानाम् ॥ ११ ॥
अत्रोद्देशकः ।
एकत्रिपञ्चसप्तनवैकादशवदनपश्चपञ्चपदानाम् ।
समवित्तानां कथयोत्तराणि गणिताब्धिपारदृश्वन् गणकः ॥ ९२ ॥
अथ गुणधनगुणसङ्कलितधनयोस्सूत्रम् -
-
पदमितगुणहतिगुणितप्रभवस्रयाद्गुणधनं तदाद्यूनम् । एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ९३ ॥ गुणसङ्कलिते अन्यदपि सूत्रम् - 'समदलविषमखरूपो गुणगुणितो वर्गताडितो गच्छ । रूपोनः प्रभवन्नो व्येकोत्तरभाजितस्सारम् ॥ ९४ ॥ गुणसङ्कलितान्त्यधनानयने तत्सङ्कलितधनानयने च सूत्रम् -- गुणसङ्कलितान्त्यवनं विगतैकपदस्य गुणधनं भवति । तद्गुणगुणं मुखोनं व्यकोत्तरभाजितं सारम् ॥ ९९ ॥
गुणधनस्योदाहरणम् ।
स्वयं गृहीत्वा त्रिगुणधनं प्रतिपुरं समार्जति । यः पुरुषोऽष्टनगर्यां तस्य कियत्तिमाचक्ष्व ॥ ९६ ॥
गुणधनस्याद्युत्तरानयनसूत्रम्
गुणमादिविभक्तं यत्पदमितवधसमं स एव चयः । गच्छतं गुणितं भवेत्प्रभवः ॥ ९७ ॥
1M. समयति.
For Private and Personal Use Only
21