SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 परिकर्मव्यवहारः शशालेन्दुरवैकेन्दुशून्यैकरूपं निधाय क्रमेणात्र राशिप्रमाणम् । हिमांश्वग्ररन्धैः प्रसन्ताडितेऽस्मिन् भवेत्कण्ठिका राजपुत्रस्य योग्या ॥ १७ ॥ इति परिकर्मविधौ प्रथमः प्रत्युत्पन्नः समाप्तः ।। भागहारः। द्वितीये भागहारपरिकर्मणि करणसूत्रं यथा 'विन्यस्य भाज्यमानं तस्याधस्थेन भागहारेण । सहशापवर्तविधिना भागं कृत्वा फलं प्रवदेत् ॥ १८॥ अथ वा प्रतिलोमपथेन भजेदाज्यमधस्थेन भागहारेण ।। सदृशापवर्तनविधिर्यद्यस्ति विधाय तमपि तयोः ॥ १९॥ अत्रोद्देशकः । दीनाराष्टसहस्त्रं दानवतियुतं शतेन संयुक्तम् । चतुरुत्तरषष्टिनरैर्भक्तं कोऽशो नुरेकस्य ॥ २० ॥ रूपाग्रसप्तविंशतिशतानि कनकानि यत्र भाज्यन्ते । सप्तत्रिंशत्पुरुषैरेकस्यांशं ममाचक्ष्व ॥ २१ ॥ दीनारदशसहस्रं त्रिशतयुतं सप्तवर्गसम्मिश्रम् । नवसप्तत्या पुरुषैर्भक्तं किं लब्धमेकस्य ॥ २२ ॥ 'अयुतं चत्वारिंशञ्चतुस्सहजैकशतयुतं हेनाम् । नवसप्ततिवसतीनां दत्तं वित्तं किमेकस्याः ।। २३ ॥ 1 This stanxa is not found in P. + This stanza is not found in P. स. 3M कोऽशो नरेका Band K हेमम्. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy