________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः
नवमं दशकोव्यस्तु दशमं शतकोठयः । । अर्बुद रुद्रसंयुक्तं न्यर्बुदं द्वादशं भवेत् ॥ १५ ॥ रवर्व त्रयोदशस्थानं महारवर्वं चतुर्दशम् । पद्मं पञ्चदशं चैव महापद्मं तु षोडशम् ॥ १६ ॥ क्षोणी सप्तदशं चैव महाक्षोणी दशाष्टकम् । शङ्ख नवदशं स्थानं महाशङ्ख तु विंशकम् ॥ ६७ ।। क्षित्यैकविंशतिस्थानं महाक्षित्या द्विविंशकम् । त्रिविंशकमथ क्षोभं महाक्षोभं चतुर्नयम् ।। ६८ ॥
अथ गणकगुणनिरूपणम् । लघुकरणोहापोहानालस्यग्रहणधारणोपायैः । व्यक्तिकराङ्कविशिष्टैर्गणकोऽष्टाभिर्गुणै यः ॥ ६९ ॥ इति संज्ञा समासेन भाषिता मुनिपुङ्गवैः । विस्तरेणागमाद्देद्यं वक्तव्यं यदितः परम् ॥ ७० ॥
इति सारसङ्गहे गणितशास्त्रे महावीराचार्यस्य कृतौ संज्ञाधिकारसमाप्तः ॥
For Private and Personal Use Only