________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रगणितध्यवहारः.
129
द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गुणितम् । रज्जुः समा द्वयोरपि को बाहुः का भवेद्भूमिः ॥ १३९ ॥ द्विसमत्रिभुजक्षेत्रे हे रजर्द्विगुणिता द्वितीयस्य । गणिते द्वयोस्समाने को बाहुः का भवेद्भूमिः ॥ १४० ।। द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गुणितम् । द्विगुणा द्वितीयरज्जुः को बाहुः का भवेद्भूमिः ॥ १४१ ।।
एकद्वयादिगणनातीतसङ्ख्यासु इष्टसङ्ख्यामिष्टवस्तुनो भाग - सयां परिकल्प्य तदिष्टवस्तुभागसङ्ख्यायाः सकाशात् समचतुरश्रक्षेत्रानयनस्य च समवृत्तक्षेत्रानयनस्य च समात्रिभुजक्षेत्रानयनस्य चायतचतुर श्रक्षेत्रानयनस्य च सूत्रम----
खसमीकृतावधृतिहतधनं चतुर्ती हि वृत्तसमचतुर श्रव्यासः । षणितं त्रिभुजायतचतुर श्रभुजार्धमपि कोटिः ॥ १४२ ॥
अत्रोद्देशकः । स्वान्तःपुरे नरेन्द्रः प्रासादतले निजाङ्गनामध्ये । दिव्यं स रनकम्बलमपीपतत्तञ्च समवृत्तम् ॥ १४३ ॥ ताभिर्देवीभि(तमेभिर्भुजयोश्च मुष्टिभिर्लब्धम् । पञ्चदशैकस्याः स्युः कति वनिताः कोऽत्र विष्कम्भः ॥ १४ ४ ॥ समचतुर श्रभुजाः के समत्रिबाही भुजाश्चात्र ।
आयतचतुरश्रस्य हि तत्कोटिभुजौ सरवे कथय ।। १४५ ॥ क्षेत्रफलसङ्ख्यां ज्ञात्वा समचतुरश्रक्षेत्रानयनस्य चायतचतुरश्रक्षेत्रानयनस्य च सूत्रम्
सूक्ष्मगणितस्य मूलं समचतुरश्रस्य बाहुरिष्टहतम् । धनमिष्टफले स्यातामायतचतुरश्रकोटिभुजौ ॥ १४६ ॥
For Private and Personal Use Only