SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रगणितव्यवहारः. 111 द्विसमत्रिभुजक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । विस्तारो द्वाविंशतिरथ हस्ताभ्यां च सम्मिश्राः ॥ ९ ॥ त्रिभुनक्षेत्रस्य भुजस्त्रयोदश प्रतिभुजस्य पञ्चदश । भूमिश्चतुर्दशास्य हि दण्डा विषमस्य किं गणितम् ॥ १० ॥ गजदन्तक्षेत्रस्य च पृष्ठेऽष्टाशीतिरत्र सन्दृष्टाः । द्वासप्ततिरुदरे तन्मूलेऽपि त्रिंशदिह' दण्डाः ॥ ११ ॥ क्षेत्रस्य दण्डषष्टिर्बाहुप्रतिबाहुकस्य गणयित्वा । समचतुरश्रस्य त्वं कथय सरवे गणितफलमाशु ॥ १२ ॥ आयतचतुर श्रस्य व्यायामः सैकषष्टिरिह दण्डाः । विस्तारो द्वात्रिंशयवहारं गणितमाचक्ष्व ॥ १३ ॥ दण्डास्तु सप्तषष्टिढिसमचतुर्बाहुकस्य चायामः । व्यासश्चाष्टत्रिंशत् क्षेत्रस्यास्य त्रयस्त्रिंशत् ॥ १४ ॥ क्षेत्रस्याष्टोत्तरशतदण्डा बाहुत्रये मुरवे चाष्टौ । हस्तैस्त्रिभिर्युतास्तत्रिसमचतुर्बाहुकस्य वद गणक ॥ १५ ॥ विषमक्षेत्रस्याष्टत्रिंशद्दण्डाः क्षितिर्मुरवे द्वात्रिंशत् ।। पञ्चाशत्प्रति बाहुः षष्टिस्त्वन्यः किमस्य चतुरश्रे ॥ १६ ॥ परिघोदरस्तु दण्डास्त्रिंशत्टष्ठं शतत्रयं दृष्टम् । नवपञ्चगुणो व्यासो नेमिक्षेत्रस्य किं गणितम् ॥ १७ ॥ हस्तौ द्वौ विष्कम्भः पृष्ठेऽष्टाषष्टिरिह च सन्दृष्टाः । उदरे तु द्वात्रिंशहालेन्दोः किं फलं कथय ॥ १८ ॥ The reading in both B and M is f ra: ; but as this is erroneous it is gorrooted into FTIGE So as to meet the requirements of the metre also. + B reads देक for प्रति. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy