________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
78
स्कन्धं चतुर्भिस्सहिता त्वशीतिः
मूलं भवेत्को नु विमुक्तिकालः ॥ ५८ ॥ षष्ट्या मासिकदृद्धिः पञ्चैव हि मूलमपि च पञ्चत्रिंशत् । मासत्रितये स्कन्धं त्रिपञ्चकं तस्य कः कालः ॥ ५९ ।।
समानवृद्धिमूलमिश्रविभागसूत्रम्-- मूलैः स्वकालगुणितैईडिविभक्तैस्तमासकर्विभजेत् । मिश्रं वकालनिघ्नं वृद्धिर्मूलानि च प्राग्वत् ॥ ६० ॥
अत्रोद्देशकः । द्विकषट्चतुश्शतके चतुस्सहस्रं चतुश्शतं मिश्रम् । मासद्वयेन वृद्धया समानि कान्यत्र मूलानि ॥ ६१ ॥ त्रिकशतपञ्चकसप्ततिपादोनचतुष्कषष्टियोगेषु । नवशतसहस्रसङ्ख्या मासत्रितये समा युक्ता ॥ ६२ ॥
विमुक्तकालस्य मूलानयनसूत्रम् -
स्कन्धं स्वकालभक्तं विमुक्तकालेन ताडितं विभजेत् । निर्मुक्तकालत्या रूपस्य हि सैकया मूलम् ॥ ६३ ।।
अत्रोद्देशकः । । पञ्चकशतप्रयोगे मासौ द्वौ स्कन्धमष्टकं दत्वा । मासैःषष्टिभिरिह वै निर्मुक्तः किं भवेन्मूलम् ॥ ६४ ॥ द्वौ सत्रिपञ्चभागौ स्कन्धं द्वादशदिनैर्ददात्येकः ।
For Private and Personal Use Only