________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिकव्यवहारः च संपीय तन्मिश्रराशौ प्रमाणराशेः वृद्धिविभागानयनसूत्रम्
कालगुणितप्रमाणं परकालहृतं तदेकगुणमिश्रधनात् । . इतरार्धकृतियुतात् पदमितरा|नं प्रमाणफलम् ॥ ४४ ॥
अत्रोद्देशकः। मासचतुष्कशतस्य प्रनष्टद्धिः प्रयोगमूलं तत् । वफलेन युतं द्वादश पञ्चकृतिस्तस्य कालोऽपि ॥ ४५ ॥ मासत्रितयाशीत्याः प्रनष्ट वृद्धिः स्वमूलफलराशेः । पञ्चमभागेनोनाथाष्टौ वर्षेण मूलसडी के ॥ ४६ ॥ समानमूलद्धिमिश्रविभागसूत्रम्अन्योन्यकालविनिहतमिश्रविशेषस्य तस्य भागाख्यम् । कालविशेषेण हृते तेषां मूलं विजानीयात् ॥ ४७ ॥
भत्रोद्देशकः । पश्चाशदष्टपञ्चाशन्मिश्रं षट्षष्टिरेव च । पश्च सप्तैव नव हि मासाः किं फलमानय ॥ ४८॥ . त्रिंशच्चैकत्रिंशदिव्यंशाः स्युः पुनस्त्रयस्त्रिंशत् । सत्र्यंशा मिश्रधनं पञ्चत्रिंशच गणकादात् ॥ ४९ ॥ कश्चिन्नर श्चतुर्णा त्रिभिश्चतुर्भिश्च पञ्चभिः षभिः । मासैर्लब्धं किस्यान्मूलं शीघ्रं ममाचक्ष्व ॥ ५० ॥ समानमूलकालमिश्रविभागसूत्रम्अन्योन्यवृद्धिसङ्गणमिश्रविशेषस्य तस्य भागाख्यम् । बडिविशेषेण हृते लब्धं मूलं बुधाः प्राहुः ॥ ५१॥
For Private and Personal Use Only