________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरः वर्णनिघण्टु
जरा मुकुन्दा सोमेशः सुमुखश्च गजांकुशः । अमृतावस्तु बालेन्दुर्दक्षपामूलगष्टकः ॥ २९ ॥ ८ ॥ पालिनी नन्दजः स्थायी लाङ्गलीश: कमण्डलुः । प्रमोदः स्थविरो वामजानुगश्चन्द्रमण्डलम् ॥ ३० ॥ 6 ॥ एकपादो व्याघ्रपादः शुभांघ्रि मरेश्वरः । क्षान्तिनन्दी दारुकेशो भौमजो दक्षगुल्फग: ॥ ३१ ॥ड॥ ऐश्वरी चार्धनारीशो नरः शङ्खान्तराकृतिः । ढल ढक्को द्विजिह्वश्च दणांध्यंगुलिमूलगः ।। ३२ ॥ ढ ।। उमाकान्तो नरकजिद्रविः शूरखिरेखकः । निर्वाणस्त्रिगुणो दक्षपादानश्च ण-कारकः ।। ३३ ।। ण ।। वामोरुमूलगो विन्दुराषाढी कामिको हरिः । तीवश्च तरलो नीलो णान्तस्थादिस्त-कारकः ॥ ३४ ।। त । वामजानुगतः सौरिविशालाक्षश्च षण्मुखः । कृष्णश्च वरदो दण्डी स्थविरस्थार्णको मतः ॥ ३५ ॥ थ ॥ धाता च धादिमः सत्यः कृबेरो ह्लादिनी ततः। अत्रीशो वरद: शूलो वामगुल्फो द-कारक: ॥ ३६ ॥ द॥ धरणीशश्च धर्मशः प्रीतिमीनेश-सात्वती। वामपादांगुलिगतो वामदेवश्च दान्तिमः ॥ ३७॥ ॥ वामपादानगः शौरी मेषेशौ नन्दि-नाटको। वक्रतुण्डश्च दीर्घा च नकारो नदीनायकः ॥ ३८ ॥ न ॥ तीक्ष्णा द्विरण्डः पद्मशो नान्तिमः शूर-लोहितो। दक्षपार्श्वगतः फादि: प्रचण्डश्च प-कारकः ।। ३६ ॥५॥ वामपार्श्वगतो रौद्री शिखीशश्च जनार्दनः । सेनानी: पान्तिमो बादिः फटकारश्च फ-कारक: ॥ ४० ॥ फ॥ वज्रमुष्टिर्भया भादिभूधरः पृष्ठवंशगः । ग्रामणी श्छगलण्डेशः सुरसश्च ब-कारकः ।। ४१ ॥ ब॥ द्विरण्डेशो विश्वमूर्तिनिद्रा भान्तो भयावहः । भृकुटीशो भरद्वाजो नाभिगश्च भ-कारकः ॥ ४२ ॥ म ।। प्र(वि)मत्तो मण्डलं मारी महाकालो विषं रविः । मन्त्रेशो जाठरस्तन्द्री बैकुण्ठश्च म-कारकः ।। ४३ ॥ म॥
२५
For Private and Personal Use Only