________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर: मातृकानिघण्टु तमाट: पाटमिस्फिक् ताराख्य ऊर्ध्वजानुकः । शक्ती शक्तिर्जटा चैव तारको मध्यकर्णकः ॥ त ॥ ४१ ।। थः स्त्र वासी भयानक: शिली शिरसिजस्तथा । महाग्रन्थिश्च विख्यातो ग्रन्थिग्राहक एव च ।। थ ॥ ४२ ॥ दोऽद्रीशो वाम जानुश्च दाता धाता च धातकिः । कुण्डलं दक्षपादश्च तथा धर्माभिधायक: ।। द ॥ ४३ ।। ध-कारो वामजङ्घा च प्रियश्व दर्शनस्तथा । नेत्रयुग्मश्च संज्ञा च स्थाणरस्थाणुरीश्वरः ।।ध ॥ ४४ ।। नो मेषो वामपादश्चानादिर्नीलश्व वामनः । दस्तुरश्चोर्ध्ववासी च नरदेवो निरञ्जन: ॥ न ॥ ४५ ॥ निधिः शेषो गुह्यकर्ता तपन: पञ्चमस्तथा । वीरभद्रा च सावित्री कालरात्रि: पुरारिहा ॥ ५ ॥ ४६ ।। फः शिखी वामपार्श्वश्च फेत्कारो वामपादकः । नीलपादस्तथा प्रोक्तः शिखी वैशाखिनां प्रिय: ॥ फ।। ४७ ॥ ब-श्छगण्ड: पृष्ठवंश: शिखिबाहो युगन्धरः । मुखबिन्दुबैलिर्घष्टी योद्धा त्रिलोचनप्रियः ॥ ब ।। ४८ ॥ भो द्विरण्डो नाभि भद्रे भीमो भाषणमेव च । दक्षस्कन्दो महाबाहुभ्रंमरस्तु जयाभिषः ।। भ ।। ४९ ।। महाकाली समुद्राख्यः कालसंज्ञो विषान्तकः । कृतान्त: कृधि(षि)त: पुन्सो यमश्च कालभद्र कः । म ॥ ५० ॥ यः कृतीशो युगान्तश्व बालीशो वायुसंज्ञक:।। वायुवेगी तथा शीघ्रः श्वसन प्राणसंज्ञकः । य॥५१॥ रो भुजङ्गो धातुरक्त: सूर्यो वै वेदकस्तथा। दीपको ज्वलनश्चव स्थूलदण्डश्च तेजसः ।। र ॥ ५२ ।। ल: पिनाको सितश्चन्द्र: पृथ्वीबीज प्रकीत्तितः। पूतना पीतशिखिन: लकारवाचकः स्मृतः ॥ ल ।। ५३ ॥ वः खङ्गीशः स्वायुयुतो (2) वज्रस्फिक मुखमेव हि । वरुण: सागरश्चैव जगद् भाषा शुचिस्तथा । व ॥ ५४ ।। शः शकारोऽथ विधाता कुमारश्चैव मन्मथा । श्रीकण्ठः पवनो देवो वामोरु: कामरूपकः । विशेष: कामरूपी च सौख्यदाता शुचिस्तथा ।। श ॥ ५५ ॥ षा श्वेत उष्मा सूर्याग्निरजेश: कालधूमकः ।
२५
For Private and Personal Use Only